________________
२३०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
कार्य, तच पूर्वसूत्रेणातिदिश्यते इति फलितोऽर्थः । अत एव नपदान्त. सूत्रे सवर्णग्रहणं कृतम् । अन्यथा नसोरल्लोपे कृते पश्चाद्भवन्ननुस्वारो नानादिष्टादचः पूर्व इति तस्य विधौ स्थानिवद्भावविरहात्सवर्णग्रहणं व्यर्थमेव स्यात् । नन्ववं 'क्षत्रियकण्डूतिः' इति न सिद्धति । तथाहि, कण्डूयतेः क्तिचि अल्लोपयलोपयोः कृतयोरल्लोपस्य स्थानिवत्वेनोवडि कृते ऊकारस्यानादिष्टादचः पूर्वस्य स्थाने जातस्योवङः "स्थानिवदा. देशः" (पासू०१-१-५६) इति स्थानिवद्भावेनानादिष्टादवः पूर्ववाद् "अचः परस्मिन्" (पासू०१-१-५७) इतिस्थानिवत्वेनाकारण व्यवा. यादृठोऽनावेन स्थानिवत्वादेव "लोपो व्योर्वलि" (पा००६-१-६६) इति पलोपाभावेन "हलि च"(पा०सू०८-२-७७) इति दीर्घ कृते 'कण्ड: त्ति' इति प्राप्नोति । यत्तु यः स्थानिद्वारा पूर्व उवङ् न तस्त्रोठ, कस्य तहि ? वकारस्य । यस्य चोठ वकारस्य, न स स्थानिद्वारा पूर्व इति । तन्न, तेस्तुरितिवत्कण्डू इत्यस्य कण्डव इति आदेशात् , तस्य च क ण्डऊ इत्यादेशे कर्तव्ये स्थानिवद्भावावश्यम्भावात् । उक्तं हि-"सर्वे सर्वपदादेशाः" इति । अन्यथा '
निराद्य' 'घात्यात्' इत्यादावपि स्थानि. वद्भावानापत्त्या मूलशैथिल्यापत्तेरिति ।।
अत्रोच्यते । अनादिष्टादचः पूर्वतायाः स्थानिद्वारकत्वमनित्यं, नप. दान्तसूत्रे 'कण्डूतिः' इति भाग्योदाहरणाशापकात् । "आतोऽनुपसर्गे कः" (पा०म०३-२-३) इति सूत्रे "कविधौ सर्वत्र प्रसारणिभ्यो डः" इति वार्तिकस्य तत्प्रघट्टकभाज्यस्य द पर्यालोचनयाप्येवमेव लभ्यते । तथा च तत्र भाष्यम्-योऽनादिष्टादचः पूर्वस्तरकायें स्थानिवत्वं ही ति । स्थानिद्वारके तु पूर्वत्वे गृह्यमाणे सम्पूर्णः प्रघट्टक एवासङ्गतः स्या दिति तत्रैव स्फुटीकरिष्यते । तत्रत्यः कयटस्त्वापाततः ।
एतेन. तितउमाचष्टे तितापयतीति हरदत्तग्रन्थोऽपि व्याख्यातः । तत्र हि णौ टिलोपे कृते तस्य स्थानिवत्त्वाद् "अची णिति" (पा० सु०७-२-११५) इति वृद्ध्यभावेऽपि "अत उपधायाः" (पासू०७-२११६) इति वृद्धौ आकारे कृते तस्य स्थानिद्वारा उकारात्पूर्वत्वेन पुग्विः धाबुकारलोपस्य स्थानिवत्त्वात्पुङ् न प्राप्नोति । न च यस्य पुक् आका रान्तस्य, नासौ पूर्वः, यश्च पूर्व आकारः, न तस्य पुगिति वाच्यम् , एकदेशविकृतस्यानन्यतया "सर्वे सर्वपदादेशाः" इत्युक्तरीत्या चाका. रान्तस्यापि पूर्ववानपायात् । तस्मात् स्थानिद्वारकं पूर्वत्वमनित्यामत्येव हरदत्तस्य शरणम् ।
अत्र केचित-'तितापयति' इत्यसाध्वेव । तथाहि तितउ णिच