________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२९
निवदेव' इति नियमात्स्वाश्रयं व्यावर्त्यते । यद्वा, माऽस्तु योगविभागः । विधिग्रहणसामर्थ्याद्विधिमात्रे स्थानिवद्भावो भविष्यति शास्त्रीयेऽशास्त्रीये च तेन 'पटयति' इत्यादौ वृद्ध्यभावोऽशास्त्रीयोऽपि सिध्यति । नम्वेषमपि पूर्वसूत्रादेव विधिग्रहणमनुवर्तयिष्यते ? सत्यम, पुनर्विधि ग्रहणात् द्वितीयो नियमः क्रियते - पूर्वस्यैव विधौ स्थानिवन्न तु पूर्वपरयोर्विधाविति । तेन 'ईयतुः' इति सिद्ध्यति । अन्यथा हि इणोऽतुसि "द्विर्वचनेऽचि' (पा०सू०१-१-५९) इति यणादेशस्य स्थानिरूपातिदे शाद द्वित्वे कृते द्वित्वकाले यणोऽपहारात् पुनः प्रवृत्तिवेलायां व्याश्रयत्वेन "वार्णादाङ्गं बलीयः " (प०भा०५५) इत्यस्मिन्नप्रवृत्ते वर्णमात्राश्रयः त्वेनान्तरङ्गत्वात्सवर्णदीर्घः स्यात् । न च "अकृतव्यूहाः" (प०मा०५६) इति यणिति वाच्यम्, निमित्तविघाताभावात् । कृतेऽपि यणि स्थानि वत्वेन सवर्णदीर्घप्राप्तेः । ततश्च सवर्णदीर्घे कृते "अन्तादिवच्च" (पा० सू०६-१-८५) इत्यनेनाभ्यासग्रहणेन ग्रहादभ्यासहस्वत्वे “दीर्घ इणः किति" (पा०सु०७-४-६९) इति दीर्घत्वे कृते दीर्घविधानसामर्थ्यादिणो यणभावे 'ईअतुः' इति स्यात् । सिद्धान्ते तु पूर्वपरयोर्विधी स्थानिवत्वाभावान्निमित्तविघातेनाकृतव्यूह परिभाषयेणो यणि सिद्धं रूपम् । यद्वा, स्थानिवदिति वतिबलेनाभावोऽप्यतिदिश्यते, उत्तरसूत्रे द्विर्वचनादिग्रहणाल्लिङ्गात् । विधिग्रहणं तु पूर्वस्यैव न तु पूर्वपरयोरित्येतदर्थमिति दिक् ।
इह स्थान्यादेश निमित्तानां त्रयाणां सन्निधानाविशेषेऽपि स्थान्यपेक्षमेव पूर्वश्वं गृह्यते न तु आदेशापेक्षं निमित्तापेक्षं वा 'वैयाकरणः ' इत्यत्र आयादेशापत्तेः । तदुक्तम् - " अचः पूर्वत्वविज्ञानादैचः सिद्धम् " ( भा०इ० ) इति ।
नन्वेवं 'समाद्य' इत्यत्र जग्ध्यादेशप्रसङ्गः "व्यल्लोपौ" (का०वा० ) इति पूर्वविप्रतिषेधेन णिलोपे कृते ततः प्रत्ययलक्षणेन वृद्धौ सत्यामेकदेशविकृतस्यानन्यतयाऽदिग्रहणेन ग्रहणात् । एवं 'घात्यात्' इत्यत्र वधा देशप्रसङ्ग इति चेत् ? न, आदिघात्योरपि स्थानिद्वाराऽनादिष्टादचः पूर्वत्वात् । ननु स्थानिनः पूर्वत्वेऽपि आदेशस्य किमायातम् ? नानादिष्टादवः पूर्वत्वं नाम शास्त्रीय कार्ये, यत् “स्थानिवदादेशः " ( पा०सू० १-१-६६) इति पूर्वसूत्रेणातिदिश्येतेति चेत् ? न, अनादिष्टादचः पूर्वत्वमुपजीव्य " अचः परस्मिन्" ( पा०सु०१-१-५७) इति शास्त्रे प्रवर्तयितव्ये "स्थानिवदादेशः " (पा०सू०१-१-५६ ) इत्यस्य प्रवृत्तिसम्भवात् । तथाच "अचः परस्मिन्" (पा०सू०१-१-५६) इत्यतिदेश एव शास्त्रीयं
•