________________
२२८
शब्द कौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
दिति परिभाषान्तरेणेदं सिद्ध्यति । तथाच विप्रतिषेधसूत्रे 'अन्तरङ्गं च' इत्युपक्रम्य इङिशीनामाद्गुणः सवर्णदीर्घत्वादिति प्रयोजनं पठितमिति चेत् ? सत्यं पठितम्, किन्तु बहुतमप्रयोजनानि पठित्वा असि. परिभाषयैव गतार्थत्वान्नेयं कर्त्तव्येत्युपसंहृतम् । एतेन प्रकृतसूत्रे 'पट्ट्ट्या' 'मृध्या' इत्युदाहरणदूषणप्रस्तावे ऽसिद्धपरिभाषां भाष्यकारेरुदाहृतामन्तरङ्गम्बलीय इत्येतदुपलक्षणतया व्याचक्षाणोऽपि कैयट : प्रत्युक्तः, विप्रतिषेधसुत्रस्थभाष्यविरोधात् । तस्मादिह सिद्धान्ततत्वमन्यदेव वक्तव्यमिति । उच्यते, अन्तरङ्गपरिभाषाया निरपवादत्वाद. सिद्धपरिभाषायास्तु " नाजानन्तर्ये" (प०भा०५१) इति सापवादत्वादुभयोरावश्यकता । विप्रतिषेधसुत्रस्थं भाष्यं त्वभ्युच्चयपरमेवेति भागवृत्तिकाराः । कैयटलघुविवरणादयोऽप्येवम् । बृहद्विवरणकारास्तु" नाजानन्तर्ये" ( १० भा०५१) इति परिभाषा मास्तु । तज्ज्ञापकतया यत्सम्मतं तेनासिद्धपरिभाषाया अनित्यत्वमेव ज्ञाप्यते इत्याहुः । अस्मिश्च पक्षे विप्रतिषेधसूत्रस्थं "नाजान्तर्ये" इति भाष्यमप्यनित्यत्वपरतया भङ्क्त्वा नेयम् । अन्यथा हि तत्रैव "अन्तरङ्गं बलीयः" इत्यस्य प्रत्याख्यानं विरुध्येत । अत एव वृत्तौ " नलोपः सुपस्वर" ( पा०सू० ८-२-२) इत्यत्र नलोपस्यासिद्धत्वात् "हस्वस्य" (पा०सू०६ - १-७१ ) इति तुक् नेत्युपक्रम्य सन्निपात बहिरङ्गपरिभाषाभ्यां गतार्थतामाशङ्क्य परिभाषाद्वयस्याप्यनित्यतां ज्ञापयितुं तुग्ग्रहणमित्युक्तम् । अत एव तत्र मिश्रैरप्युक्तम्--बहिरङ्ग परिभाषाया अनित्यत्वात् 'या' 'सा' इत्यत्र बहिरङ्गमपि त्यदाद्यत्वमन्तरङ्गे टापि नासिद्धमिति । तथा 'प्रतिदीवनः ' इत्यादिसिद्धयेप्यसिद्ध परिभाषाया अनित्यत्वं स्वीकृतम् । अत एव च 'अक्षद्यूः' इत्यत्र यलोपे कार्ये ऊठ् नासिद्ध इति दिक् ।
एतदपवादश्च "अकृतव्यूहाः " (प० भा० ५६ ) इत्यादिः । उत्सर्गाप वादयोर्द्वयोरप्यनित्यत्वे स्थिते लक्ष्यानुरोध एव व्यवस्थाहेतुरिति
सर्व सुस्थम् |
स्यादेतत् । पूर्वस्येति सम्बन्धसामान्ये षष्ठी । सम्बन्धश्च द्वि विधः- कार्यित्वेन निमित्तत्वेन वा । एवञ्च विधिग्रहणं विनैव समास द्वयस्य फलं लब्धम् । विधिग्रहणे सत्यपि हि पूर्वस्मान्निमित्तत्वेनाश्रिता दिति व्याख्येयमेव, अन्यथा 'हे गौः' इत्यत्र गकारात्परस्य विधौ वृद्ध स्थानिवद्भावाद् “एङ्हस्वात्" (पा०स्०६ - १-६९) इति सम्बुद्धिलोपः स्यात् ।
सत्यम् । विधिग्रहणं योगविभागार्थम् । तेन 'पूर्वस्य विधौ स्था