________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२७
ङ्गस्य तु पूर्वोक्ता · एवोद्धाराः स्मर्तव्या इति युक्तः पन्थाः । ननु पञ्चमीसमासो मास्त्विति वदतो मते 'तन्वन्ति' इत्यत्रेट् स्यादिति कुतो नोद्भावितमिति चेत् ? न, बहिरङ्गस्य यणोऽसिद्धत्वात् । न च "नाजानन्तर्ये" (प०भा०५१) इति निषेधः, अनन्तरे कार्यविधौ यत्राच आनन्तर्यमिति कैयटेनाभ्युपगमात् । कथं तर्हि 'तन्वन्ति' इति पञ्चमी. समासोदाहरणं प्राग्दत्तमिति चेत् ? हरदत्तमतेनेत्यवेहि । स हि यत्रा. न्तर बहिरङ्गे वा अचोरानन्तर्यमिति व्याख्यत् । नन्वेवं न पदान्तसूत्रे 'दध्यत्र' इति वृत्तिमुपादाय स्थानिवद्भावप्रतिषेधसामर्थ्याद्वहिरङ्गपरिभाषा न प्रवर्तत इति मिश्रोक्तिविरुध्येत, बहिरङ्गे यणि अचोराश्रयणेन "नाजानन्तर्ये" (प्र०भा०५१) इति निषेधादेव परिभाषाया अप्रवृत्तेः । किञ्च "संयोगान्तस्य लोपः” (पासू०८-२-२३) इति सूत्रे "असिद्धं बहिरङ्गम्' (प०भा०५०) इति परिभाषामाश्रित्य क्रियमाणं "यणः प्रति. षेधः" (कावा० ) इति वार्तिकस्य प्रत्याख्यानमपि विरुध्यत । अपि च "लण्" (मासु०६) इति सूत्रे "उरणपरः” (पासू०१-१-५१) इति परेण चेत् 'कर्बर्थम्' इत्यत्र रेफद्वयं धूयेतेत्युक्तम्, तदपि विरुध्येत "रो रि(पासु०८-३-१४) इति लोपसम्भवात् , असिद्धपरिभाषाया. श्वोक्तरीत्या निषेधात् । किञ्च "न धातुलोप" (पा०सू०१-१-४) इति सूत्रे 'प्रेद्धम्' इत्यत्रत्यभाष्येण "संयोगान्तस्य" (पासू०८-२-२३) इत्यत्र "यणः" (काभ्वा० ) इत्यस्य प्रत्याख्यानभाष्येणापि विरोधः। किञ्च "एत ऐ' (पासू०३-४-९३) इत्यत्र 'पचावेदम्' इत्यादौ अतिप्रसङ्ग. माशड्य बहिरङ्गतया स्वीकृतं समाधानमपि भज्यतेति दिक । तस्मा. द्धरदत्तकृता व्याख्या पूर्वापरस्वग्रन्थेन भाष्येण च विरुद्धेति चेत् ? सत्यम्, अत एवेमा व्याख्यां नधातुलोपसूत्र एवानुपादेयामवोचाम । "केऽणः" (पा०सू०७-४-१३) इत्यादिज्ञापकात् "नाजानन्तर्ये" (प०भा० ५१) इत्यस्यानित्यतामाश्रित्य वा कथञ्चित्समर्थनीयम्।
स्यादेतत् । कैयटमतेऽप्यचोरिति द्वित्वं विवक्षितं न वा? आधे मलभूतक्षापकविरोधः । नहि 'कोसिचत्' 'कोस्य' इत्यादावनन्तरे षत्व. विधावचोराश्रयणम् । द्वितीये तु मूलभूतं ज्ञापकं सम्भवेत् यदीणग्रहणं पर्वण स्यात्, तत्तु परेणैवेति स्थितम् । अथ परेणेण्ग्रहणे हलोऽपि केचिदन्तर्भवन्तु नाम, अजानन्तर्यन्तु न गतमित्याशयः, तहस्त कथ. विज्ञापकनिर्वाहः । 'अयज इन्द्रम्' 'वृक्षे इन्द्रम्' इत्यादौ परत्वात्सवर्ण. दीर्घस्तु दुर्वार एव । न हात्र "आसिद्धं बहिरङ्गम्" (५०भा०५०) इति प्राप्नोति "नाजानन्तर्ये' (प०भा०५१) इति निषेधात् । नन्वन्तरङ्गं बलत