________________
-२२६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके
"ल्यपि लघुपूर्वात्" (पा०स०६-४-५६) इत्यनेन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षायां वर्णग्रहणे जातिग्रहणाद्यवधानेऽपि न दोष इति । के. चित्तु पञ्चमीसमास इह मास्तु, प्रयोजनाभावात् । तथाहि, 'बेभिदिता' 'माथितिकः' 'अपीपचन्' इति प्रयोजनत्रयं भाप्ये उक्तम । तत्र 'बेभि. दिता' इति तावदन्यथासिद्धम् “एकाच उपदेशे' (पा० सू०७-२-१०) इत्यत्र विहितविशेषणाश्रयणात् । माथितिकेति मथितं पण्यमस्येति वि. ग्रहे "तदस्यपण्यम्" (पा०स०४-४-५१) इति ठाक तस्येकादेशे "यस्ये. ति च" (पासू०६-४-१४८) इत्यल्लोपे कृते "इसुसुक्तान्तात" (पासू० 9-३-५१) इति कादेशो न भविष्यति "अनविधौ” (पासू०१-१५६) इतिनिषेधेन स्थानिवद्भावासम्भवात् । “ठस्येकः' (पा०स०७-३-५०) इत्यत्र स्थान्यादेशयोरकारस्य उच्चारणार्थतया वर्णमात्रस्य स्था. नित्वात् । अस्तु वा स्थान्यादेशयोरकारस्य विवक्षा । न चैः वमनल्विाधित्वात्कादेशप्रसङ्गः सन्निपातपरिभाषया समाधानात् । न चापीपचन्नित्युदाहरणम् । इह हि अन्तेरकारस्य चकारस्य च "अतो गुणे" (पा० सू०६-१-९७) इति पररूपत्वे तस्य परं प्रत्या. दिवद्भावाज्झिग्रहणेन ग्रहणे सति "सिजभ्यस्त" (पा०९० ३.४१०९) इति जुस् प्राप्ता णिलोपस्यैकादेशस्य वा स्थानिवद्भावान भ. वतीति वाच्यम्, वत्तर्हि लङयेवानन्तरो झिः सम्भवतीति तत्साहच. दिभ्यस्तादपि लङ एव झर्जुविधानात् । न च सिचा साहचर्याल्लु डोऽपि ग्रहणमस्त्विति वाच्यम् "विप्रतिषेधे परम्" (पा० सू०१-४-२) इति परसाहचर्यस्य बलीयस्वादिति । अत एव भवतेर्यङ्लुङन्ताल्लुङि 'अबोभूवन्' इति माधवः । पञ्चमीसमासप्रयोजनतया 'अपीपचन्' इत्युः दाहरतो भगवतस्तु नेह साहचर्य नियामकतया सम्मतम् । कृत्वोऽर्थन हणाद्धि ज्ञापकात्साहचर्य न सर्वत्राश्रीयते इत्युक्तं "दीधीवेवीटाम्" (पा०सू०१-१-६) इति सूत्रे । तस्माद्यङ्लुकि भुवो लुङि जुसेवोचितः "आतः” (पा०स०३-४-११०) इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरताया माधवेनैवोक्तत्वात् । अभ्यस्ताश्रयस्य जुसो दुर्वारत्वात् । यदि तु लाघवाद् "आत:'' (पासू०३-५-११०) इति निय. मः सामान्यापेक्षस्तदा मुसभावे "अदभ्यस्तातू' (पा० स०७-१-४) इत्यतू, तथा च 'अबोभूवुः' 'अयोभूवत्' इति पक्षभेदेन रूपद्वयं लभ्यते, नित्यत्वेन वुको गुणवाधकत्वात् । माधवोदात्तम् 'अबोभूवन्' इति तु चिन्त्यमेव, अन्त्यादेशस्य दुर्लभत्वात् । 'अपीपचन्' इत्येतत्सिद्धय 1 पञ्चमीसमास आश्रयणीयः । विगणय्य' इत्यादावतिप्रस.