________________
विधिशेषप्रकरणेऽतिदेशसूत्रम् ।
२२५ भवति । पूर्वविधाविति किम् ? नैधेयः। निपूर्वाद्धाम "उपसर्गे घोः किः” (पा०स०३-३-९.२) आतो लोपः । “यचः" (पासू०४-१-१२१) "इतश्चानिनः' ( पा०सू०४-१-१२२ ) इति ढक् । आकारलोपस्य स्था. निवत्त्वे तु सति व्यकत्वव्यपदेशेन द्यकत्वं विरुद्धत्वाद्वाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं मास्तु पूर्वस्येति षष्ठया कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेत् ? न, पूर्वस्य विधिः पूर्वस्माद्विधिरिति समासद्वयताभार्थ विधिग्रहणम् । पञ्चमीस मासे उदाहरणं तु 'तन्वन्ति' इत्युक्तमेव ।। ___स्यादेतत, यदि पञ्चमीसमासोऽपीष्टस्तर्हि 'विगणय्य' इत्यादि न सिध्यति "ल्यपि लघुपूर्वात्" (पा०सू०६-४-५६ ) इत्ययादेशे कर्तः व्येऽल्लोपस्य स्थानिवद्भावात् । न चारम्भसामर्थ्यम् 'अनुगमय्य' इत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते । पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् "निष्ठायां सेटि' (पासू०६-४-५२) इति ज्ञापकात् । तथाहि । तत्र सेटीति पदं न तावदनिडव्यावृत्त्यर्थ णिजन्तात्तदसम्भवात् । ननु 'संक्ष. पितः पशुः' इत्यत्र “यस्य विभाषा" ( पा०सू०७-२-१५ ) इतीनिषेधः सम्भवत्येव । “सनीवन्त" (पा० नु०७-२-४९) इति विकल्पितेटकत्वा. दिति चेत् ?."यस्य विभाषा" ( पा०सू०७-२-१) इत्यत्रैकाच इत्यनु वृत्तेः । अन्यथा 'दरिद्रितः' इतीण्न स्यात् । तस्मात्कालावधारणार्थ से
ग्रहणम् । इटि कृते णिलोपो न तु ततः प्रागिति । अन्यथा 'कारितम' इत्यादौ णिलोपे कृते "एकाच उपदेशे" (पा० सु०७-२-१०) इतीग्नि. षेधः स्यादिति सेटीति वदतो भावः । पूर्वस्माद्विधौ स्थानिवस्वे तु न प्राप्त एव निषेधः, णिचा व्यवधानात् । तस्मात्सेट्ग्रहणमनित्यतां ज्ञाप. यतीति स्थितम । तथा चाष्टमे "अन्त::' (पा० सू०८-४-२०) इति सुत्रे हरदत्तः-"अनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः "निष्ठायां सेटिं" (पा० सू०६-४-५२) इति सेट्ग्रहणात् । एतच्च स्थानिवद्भावप्रकरणे एव व्याख्यातम्" इति । यद्यपीह प्रकरणे स्वयं न व्याख्यातं तथापि न्यास. कारादिभिर्व्याख्यातामिति तद्रन्थस्यार्थः । लेखकप्रमादान्थभ्रंशो वा कल्प्यः । एतेन "ओः पुयण" (पा• सू० ७-४-८०) इति सूत्रे यदत्र वक्त. व्यं तद् "द्विर्वचनेचि" (पा० सू० १-१-५५) इत्यत्रैवोक्तमित्यपि हरद. त्तग्रन्थो व्याख्यातः । तथाच वस्वेकाच्सूत्रे कैयट:-पूर्वस्मादपि विधा. वित्येतदनित्यमिति । माधवाचार्यास्तु 'परिवढय्य गतः' इत्यत्रासिद्धता. मुद्भाव्य व्याश्रयत्वात्तां परिहत्य पूर्वस्मादपीति स्थानिवत्वमाशझा 'प्रबेभिदय्य' 'प्रस्तनय्य' इत्यादिभाष्योदाहरणबलेन समादधुः । यदा
शब्द. प्रथम. 15.