________________
अयोगवाहानामाक्षरसमाम्नाये उपदेशः ।
हस्त्वयर्थ्यालाभात्, तत्फलस्य च वक्ष्यमाणत्वात् । न चाट्स्वेव यकारोतरमुपदेशात्तल्लाभ इति वाच्यम्, तथा सति 'पवःसु' इत्यादाषिणः परत्वेन पत्वापत्तेः; अच्वासिद्ध्या "समः सुटि" (पा०सू०८ - ३.५) इत्यत्रत्यकैयटा दि प्रन्थविरोधापसश्चैति दिक् ।
५७
अविशेषेणेत्यादि वार्त्तिकस्यायमर्थः यत्र यत्र प्रदेशे प्रयोजनं श्यते तत्र तत्रोपदेशः कर्तव्यः, प्रयोजनानि तु संयोगसंज्ञादीनि पञ्चे ति । तथाहि, वार्त्तिकमते उब्जेरुपध्मानीयोपधतया उपध्मानीयस्य हल्संज्ञां विना संयोगसंज्ञा न सिद्ध्यति । जश्त्वं त्वसिद्धम् । ततश्च "सं. योगे गुरु" [पा०सु०१-४-११] इति गुरुसंज्ञाया अपि विरहादू 'उ३ब्जक' इत्यत्र “गुरोरनृतः” [पा०सु०८-२-८६] इति प्लुतो न स्यात् । तस्मात्प्लुतगुरु संज्ञाह संज्ञानामुत्तरोत्तरसापेक्षतया प्लुतसिद्ध्यर्थं हल्संज्ञा पषितव्या । तदेतदभिप्रेत्योक्तम् - "संयोगसंज्ञा प्रयोजनम्" इति । तथोपधासंज्ञाऽपि प्रयोजनम् - 'निष्कृतं' 'दुष्कृतम्' "इदुदुपधस्य च " [पा०सु०८-३-४१] इति षत्वं यथा स्यात् । भाष्यकारस्त्वाह- इदुदुपस्थानिको यो विसर्ग इति व्याख्यानान्नेदं प्रयोजनम्, उपधाग्रहणंप्रत्याख्यानाद्वा । इदुद्भयां परस्य विसर्गस्येत्येवेष्टसिद्धिरिति । अलोन्त्य विधिश्च प्रयोजनम् -'वृक्षस्तरति ' । विसर्जनीयान्तस्य पदस्य स इति पक्षे अअन्त्यस्य सत्वं यथा स्यात् । पदस्य यो विसर्जनीय इति व्याख्यानात् "निर्दिश्यमानस्य'" [पा०सू०१२] इति परिभाषया वा सिद्धत्वादिदमपि न प्रयोजनम् । द्विर्वचनं च प्रयोजनम् । 'उरः कः, उरः पः' "अनचि च " [पा०सू०८-४-४७] इत्यच उत्तरस्य यरो विधीयमानं द्वित्वं सिद्धं भ. वति । तथा स्थानिवद्भावप्रतिषेधोऽपि प्रयोजनम् । यथा 'उरः केण' इत्यादी अड्व्यवायेति णत्वं सिद्धं भवति । एवं 'व्यूढोरस्केन' इत्यादावपि प्राप्नोति स्थानिवद्भावात्सकारस्य तत्र “अनल्विधौ” [पा०सू०ए० १-१-५६] इति प्रतिषेधोऽलत्वे सति सिध्यति । न च " पूर्वत्रासिद्धे न स्थानिवत्" [भा०६०] इति निषेधोऽस्त्विति वाच्यम्, न पदान्तस्त्रशेषभूतस्य तस्य "अचः परस्मिन् " [ पा०सू०१-१-५७ ] इत्येतद्विषयकत्वात् । स्थानिवद्भावं प्रति त्रिपादीस्थस्यासिद्धतया न्यायसिद्धं तदिति पक्षे तु नेदं प्रयोजनम् । 'उरः केण' इति णत्वं 'संस्कर्ता' इत्यत्र सकारस्य द्वित्त्वं चाधिकं प्रयोजनं बोध्यमिति दिक् । यद्यपि सर्वमिदमट्श रोरुपदेशेन सिद्ध्यत्येव, तथापि वार्त्तिकाभररचनाया द्वेधापि सम्भव इति भावः ॥
लण् [मा०सु०६] । अत्राकारोऽनुनासिकः प्रतिज्ञायते, न तु हका
.