________________
शब्द कौस्तुभ
प्रथमाध्यायप्रथमपादद्वितीयाहिके
रादिग्विषोचारणार्थः । तेन "उरण् रपरः " [पा०सू०१-१-५१] इत्यत्र रप्रत्याहारग्रहणं भवति । प्रत्याहारग्रहणे ज्ञापकस्तु "ऋकारऌकारयोः सवर्णविधिः" [का०वा०] इति वार्तिकनिर्देशः । ननु " अइउण्" [मा० सू०१] इत्यत्रानुबद्धो णकारः स एवेहानुबध्यते । तेनाग्रहणेष्विण्हणेषु च पूर्वेण परेण वेति सन्देहः प्राप्नोति । तस्मादसन्देहा येहानुबन्धान्तरमेव कुतो न कृतमिति चेत् ? न, व्याख्यानतो विशेषप्रतिपसिने हि सन्देहादलक्षणम्" [प०मा० १] इति परिभाषां ज्ञापयितुमनुबद्धस्यैव पुनरनुबन्धात् ।
५८
ञमङणनम् । झभञ् [मा०सु०७-८ ] । अत्र मकारानुबन्धो भाष्ये प्रत्याख्यातः । स हि प्रत्याहारत्रये उपयुज्यते-अम् यम् ङमिति । तच त्रयं प्रकारेणैव निर्वहति । तथाहि, "पुमः स्वय्यम् परे" इत्येवास्तु | न च झकारभकारपरः खयस्ति, येनातिप्रसङ्गः स्यात् । तथा "हलो यत्रां यञि लोपः" इत्येव पाठ्यम् । न च झकारभकारौ झकारभकारपरौ स्तः । हल उत्तरयोस्तयोः सम्भवे तु "झरो झरि" [पा० सुं०८-२-३९] इति लोपेन भाव्यमेव । तथा "ङजो हस्वादचि ङत्रुनित्यम्” इति पाठ्यम् । न च झकारभकारी पदान्तौ स्तः । उझेल. भेश्व विपि तौ स्त एवेति चेत् ? न, उज्झेर्दोपघतया संयोगान्तलोप सति 'उद्' इति रूपाभ्युपगमात्, लभेस्तु जत्वविधानात् । नन्वेवम प्यागमिनस्त्रयो ङणनेभ्यः परे अचः आगमास्तु पश्चेति संख्यातानुदेशो न स्यादिति चेत् ? न, "यथासंख्यम् " [पा०सु०१-३-१०] इत्यत्र हि विध्यर्थप्रमितिवेलायां निर्दिश्यमानगत संख्यासाम्यमाश्रीयते, न तु लक्ष्यसंस्कारवेलायां प्रयोगगतम् । तस्मान्माऽस्तु मकारोऽनुबन्ध इति स्थितम् ।
घढघष् ॥ जबगडदश् ॥ खफछठथचटतव् ॥ ऋपयू | शषसर् ॥ हल् [मा०सु०९।१०।११।१२।१३/१४) ॥ इति माहेश्वराण्यक्षरसमाम्नाय सूत्राणि । अत्रायं संग्रहः
पकस्मान्ङअणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः । शेयौ चयौ चतुभ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ इति ।
अस्यार्थः - ञणवटा एकस्मात्परं ग्राह्याः स्युः । तथाहि, ङकार एकारादेव परो ग्राह्यः "पडि पररूपम्" (पा०सू०६-१-९४) इति यथा । ननु "षिद्भिदादिभ्यो ऽ” (पा०सु०३-३-१०४) "अस्यतिवक्तिख्यातिभ्यो
99
” [पा०स्०३-१-५२] इत्यकारेण ग्रहणमस्त्विति चेत् १ नं, "आदिरन्स्येन” [पा०सू०१-१-७१] इत्यत्र " अणुदित्सवर्णस्य च" [पा०सु०११-६९] इत्यतोऽप्रत्यय इत्यनुवृत्तेः । अत एव "रोः सुपि” [पा०सु०८