________________
चतुर्दशसूत्रीस्थानुबन्धानां प्रत्याहारेषुपयोगः।
५६
३-१६] इति न प्रत्याहारग्रहणम् । “सुपि च" [पासु०७-३-१०२] इत्यत्र तु अप्रत्यय इति प्रतिषेधो नास्ति, यमादाविति विशेषणाद् उत्सा रत्र च "बहुवचने झलि" [पा०सू०७-३-१०३] इति विशेषणात् । "सु. प्तिङन्तं पदम" [पासू०१-४-३४] इत्यत्र तिङ्साहचर्यात् "शास इदङ्ह. लो" [वा०स०६-४-३४] इत्यत्र तु अहणसामर्थ्यादपि प्रत्याहारग्रहणं न भवति । अङादी हलादौ चेति हि व्याख्याने अब्हलोरिति व्यर्थमेव स्यात् । द्विविधा एव हि ङितः प्रत्यया अङादयो हलादयश्च । 'व्यति. शासै' इत्यत्र तु विङत्वमेव नास्ति, अटा सहैकादेशस्य स्थानिवद्भावे. नाङादित्वाच । “फटशोऽङि" [पासू०७-४-१६] इत्यपि न प्रत्याहारः,
कारान्तेषु "कच्छत्यूताम्" [पासू०७ ४-११] इति गुणविधानाज्ज्ञा. पकात् । “सनि च" [पा०सू०२-४-४७] "इङश्च" [पासू०२-४-४८] इति न प्रत्याहारः “इको झल्" [पासू०१-२-९] इति कित्त्वविधानात् "अज्झनगमां सनि" [पा०स०६-४-१६] इति दीर्घविधानाच । इङन्ता. नां सनि गम्यादेशे हि सति उदाहृतसूत्रद्वयं निर्विषयं स्यात् । “परिमा. णाख्यायां सर्वेभ्यः" [पा०सू०३-३-२०] "इङश्च" [पासू०३-३-२१] इत्यपि न प्रत्याहारः वैयर्थ्यप्रसङ्गात् । तथाहि, इकारान्तेभ्य एरचा भा. व्यम् । उकारान्तेभ्य "ऋदोर" [पा०सु०३-३-५७] इत्यपा । लकारा. न्तास्सन्न्येव न । एजन्तानामप्यनैमित्तिकेनात्वेन प्रत्ययोत्पत्तेः प्रागेव भाव्यम् । अतः प्रत्ययोत्पत्तिवेलायामजन्ता न सन्त्येव । ऋदन्ताः परम. वशिष्यन्ते । तत्र 'उः' इत्येव लाघवाद ब्रूयात् । वस्तुतस्तु सामान्यलक्ष. णेनैव ऋदन्तेषु घनः सिद्धत्वात्सूत्रमेवेदं न कुर्यात् । अथोच्येत-"इङश्च" [पा०सू०३-३-२१] इत्यारम्भसामादिवर्णोवर्णान्तवेवाजम्भ्यां सह वैकल्पिको घञ् समाविशत्विति, तदपि न; एवं हि सति अजयो. विधावेव वाग्रहणं कुर्यात् । “क्रीङ्जीनां णो" [पासू०६-१-१८] इति न प्रत्याहारः क्रीज्योः पृथग्रहणवैयर्थ्यांपत्तेः । न चेकारान्तानां मध्ये एतयोरेवेति नियमार्थ पृथग्रहणमिति वाच्यम्, एवं हि 'इक' इत्येव बयात्, एजन्तानां सामान्यलक्षणेनैवात्वस्य सिद्धत्वात । "इधार्यो:" [पा०स०३-२-१३०] इत्यपि न प्रत्याहारः, धारिणा साहचर्यात् । तस्मा. सिद्धं कार एकस्मादेवेति।
तथा अकारोऽप्येकस्मादेव । “अतो दी? यषि" (पासू०७-३१०१] इति । , तथा "माउण्" [मा०६०१] इत्येव णकारोऽप्येकस्मादेव। अणिति यथा । अथ "इणः वीम्यम्" [पा००८-३-७८] इत्यादाविणप्रत्याहारो.