________________
६० शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयांत्रिकऽप्यनेन कुतो नेति चेत् ? न, "अचि नुधातुरुवां वोः" [पासू०६४-७७] इत्यत्रेकारोकारयोः स्वरूपेण निर्देशात् । अन्यथा हि संहितायां मात्रालाघवात्पदच्छेदेऽप्यर्द्धमात्रालाघवाद् 'इणः' इत्येव जयात् । व्याख्यानाच पूर्वेण न तु परेण ग्रहीष्यते । व्याख्यानं च सिद्धान्तेऽपि शरणम् । य्वोरित्यपि हि निर्देशे किं हस्वयोर्ग्रहणमुत दधियोरुत यका. रवकारयोरिति सन्देहः स्यादेव । एवञ्च "एच इग्घ्रस्वादेशे' [पा०सू० १-१-४८] इति सूत्र इणित्येव प्रतिपत्तिलाघवार्थ वक्तव्ये इग्ग्रहणमपीह लिङ्गम् । इण्ग्रहणे हि तत्र यथासंख्यप्राप्तिरेव नेतिन तत्परिहाराय यति. तव्यमिति दिक् ।
एवं वकारोऽप्येकस्मादेव "नश्छव्यप्रशान्" [पासू०८-३-७] इति "एचोऽयवायावः" [पासू०६-१-७:] इति सूत्रे अविति न प्रत्याहारः, अयादिसाहचर्यात् ।
एवं टकारोऽप्येकस्मात् "अट् कुप्वा" [पा०सु०८-४-२] इति ।
द्वाभ्यां षः "एकाचो बशो भष् झपन्तस्य स्ध्वोः” [पासू०८-२३७] इति यथा।
ककारस्त्रिभ्यः । “अकः सवर्णे" [पासू०६-१-१०१] "इको यण्" [पासू०६-१-७७] "इसुसुक्तान्तात्कः" [पासू०७-३-५१] इति यथा। __ "लण्" [मा०सू०६] इत्यत्रत्यो णकारोऽपि त्रिभ्यः "अणुदित्सवर्ण स्थ" [पासू०१-१-६९] इत्येक एवाण, । "इणः षीध्वम्" [पासु० ८-३-७८] इत्यादयः सर्वे इणः, "इको यण्" [पा०सू०६-१-७७] इत्यादौ यण च। तत्र यण तावत्पूर्वेण न सम्भवत्येव । इण्तु सम्भवनपिज्ञाप कास्यक्तः । अणस्तु उभाभ्यां ग्रहणे स्थिते क पूर्वेण क वा परेणेति वि वक्षा ग्रहणकशास्त्रे परेणैवान्यत्र तु पूर्वेणैवेति सिद्धान्तः । उक्तं हि"व्याख्यानतो विशेषप्रतिपत्तिः" [प०भा०१] इति । न हि "परेश्च घाङ्कयोः" [पा००८-२-२२] इत्यादौ व्याख्यानादन्यनियामकमस्ति । किञ्च, अण ग्रहणानि तावत्पञ्च-"उरण रपरः" [पासू०१-१-५१] "अ. णुदित्सवर्णस्य" [पासू०१-१-६९] "दलोपे पूर्वस्य दीर्घाणः" [पासू० ६-३-१११] "केऽणः" [पासु०७-४-१३] "अणोऽप्रगृह्यस्य" [पासू०८४-५७] इति । तत्र "उरण रपरः" [पासू०१-१-५१] इति तावत्पूर्वेण "ऋत इद्धातोः" [पा०सू०७-१-१००] इति धातुग्रहणामापकात् । त. द्धि 'मातृणाम्' इत्यादिव्यावृत्यर्थे क्रियते । परेण च प्रहणे "नामि" [पा सु०६-४-३] इति दीर्घस्यापि रपरत्वापरया व्यावाप्रसिद्धिः । ननु चिकीर्षति' इत्यत्र "अज्झनगमाम्" [पा०स०६-४-१६] इति दीर्धे