________________
चतुर्दशसूत्रीस्थानुषन्धानां प्रत्याहारेषुपयोगः। ६१ रपरत्वे च सति "उपधायाश्च" [पासू०७-१-१] इतीत्वमेषितव्यम् । तद्वत् 'मातृणाम्' इत्यत्रापि प्रसङ्गे तद्यावर्तकतयोत्तरार्थ धातुग्रहणं भ. विष्यतीति चेत् ? न, एवं हि सत्युत्तरत्रैव कुर्यात् । इह करणं शापकमे. व । तथा च वक्ष्यति-"नुड्वाच्य उत्तरार्थ तु, इह किश्चित् पो इति" इति । किश्च अणग्रहणसामादपि पूर्वेणैवायम् । यदि हि परेण स्याद् 'उरच्' इत्यग्रहणमेव कुर्यात् 'कृत्तिः' 'कृतं' 'प्रकृतं' 'नःपाहि' मातृ. णाम्' इत्यादावाद्युदात्तानुदात्तस्वरितानुनासिकदीर्घाणां रपरतायाः परेणाण्प्रहेणोपपादयितव्यायास्तावतापि लाभात् । 'कर्ता' 'कारकः' इत्यादौ गुणवृद्धिप्रसङ्गे एचामवर्णस्य चाविशेषाद्रपरत्वस्य विकल्पेन प्रसङ्ग इत्यप्यग्रहणेन सिध्यत्येव ।
स्यादेतत्, 'कर्बर्थम्' इत्यत्र इको यणि रपरत्वे रेफद्वयश्रवणार्थ. मण्ग्रहणं स्यात् । न तदग्रहणेन सिध्यति । "हलो यमाम्" [पा०स० ८-४-६४] इति लोपस्तु वैकल्पिकः "झयो होऽन्यतरस्याम्" [पा०सू० ८-४-६२] इत्यतोन्यतरस्यांग्रहणानुवृत्तेः । अत्र च शापकं ग्रहणकशा. लेडण्ग्रहणम् । तद्धि 'सय्यन्ता' सम्वत्लर' । यलँलोकम्' इत्यादौ पर. सवर्णस्य सानुनासिकस्य य ग्रहणेन ग्रहणाद् "अनचि च" (पासू० ८-४-४७] इति द्वित्वे कृते पक्षे यवलानां त्रिकस्य श्रवणार्थ क्रियते । "हलोयमाम" पासू०८-४-६४] इत्यस्य नित्यत्वे तु व्यर्थमेव तत्स्यात् । यद्यपि गुणानामभेदकत्वेनैव सानुनासिकयवलानां द्वित्वसिद्धग्रहण. कशास्त्रज्महणमेवोचितं न त्वण्ग्रहणं, तथापि 'गुणा भेदकाः' [प०भा०] इत्यपि पक्षं शापयितुमण्ग्रहणम् । भेदकाभेदकपक्षयोश्च जातिव्यक्तिप. क्षयोरिव लक्ष्यानुरोधाद्यवस्था । अत एव "चतसर्यायुदात्तनिपातनम्" [भा०६०] इत्यादि सङ्गच्छते । अत एव च "अष्टन आ विभक्तौ" [पा०सू० ७-२-८४] इत्यादाविदमस्त्यदाद्यत्वे चानुनासिकोनेति वक्ष्यामः । __यत्तु विकल्पानुवृत्तौ चापकान्तरवर्णनम्-अनुवर्तते विभाषा शरो. ऽचि यद्वारयत्ययं द्वित्वं, नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चि. त्स्याद् इति, ततु भाग्ये दुषितम् । तथाहि, लोपस्य नित्यत्वे "अचो रहाभ्याम"[पासू०८-४-४६] इति द्वित्वेनारम्भसामर्थ्यात्तद्वाधः। विवि. धा एव हि यरा-यमो झरश्चेति । तत्र “हलो यमाम्" [पा०सू०८-४-६४] इति "झरो झरि" [पा००८-२-३९] इति च लोपे कृते द्वित्वं वृथा स्यात । किं तर्हि तयोर्योगयोरुदाहरणमिति चेत् ? यत्रान्तरेण द्वित्वं व्यजनत्रयं लभ्यते, यथा आदित्यो देवताऽस्य आदित्यः, प्रत्तम्, अव. तमिति । एवं स्थिते 'चतुषु' इत्यत्रापि यदि द्वित्वं स्यात्तर्हि लोपो