________________
६२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयाहिकेन स्यादेव । ततश्च सार्थकः "शरोऽचि" [पासू०८-४-४९] इति नि षेधः कथं विभाषानुवृत्ति ज्ञापयेदित्यास्तां तावत् । सर्वथापि विक. ल्पानुवृत्तेः स्थितत्वात्पाक्षिकरेफवयश्रवणार्थमण्ग्रहणमस्त्विति ।
अत्रोच्यते, 'कर्बर्थम' इत्यादौ सत्यपि रपरत्वे रेफद्धयश्रवणं दुर्लभम् रोरि" [पा०सू०८-३-१४] इति लोपात् । न च तत्र ‘पदान्तस्य' इति व्याख्यातुं युक्तं, जर्पधेर्लङ् 'अजर्घाः' पास्पर्द्धलङ् 'अपास्पाः' इत्यादेर. सिद्धिप्रसङ्गात् । न चाणग्रहणसामर्थ्यात्तद्वाधः, पूर्वेणापि ग्रहणे ऽबाधे. नैवोपपत्तेरिति दिक् । तम्माद्धातुग्रहणसामर्थ्यादणग्रहणसामर्थ्याद्वा "उरण रपरः" इति पूर्वेण ग्रहणमिति स्थितम् । वस्तुतस्तु धातुग्रह. णमेव शापकम्, अणग्रहणस्य 'लाकृतिः' इत्यादी लपरताफलमित्यपि वक्तुं शक्यत्वात् । “अणुदित्सवर्णस्य चाप्रत्ययः" [पासू०१-१-६९] इति त परेणैव "ऊर्ऋत" [पासू०७-४-७] इति लिकात । तत्र हि "कृत संशब्दने" [चु०उ०] इत्यस्माच्चुरादिग्यन्ताल्लङि चङि 'अचीकृतत् इत्यत्र कारस्य दीर्घस्यापि स्थाने इस्व एव यथा स्यादित्येवमर्थ तपर• करणं कृतम् । ग्रहणकशास्त्रे पूर्वेण ग्रहणे तु दीर्घस्य ऋकारस्य न स्था. नित्वं न वाऽऽदेशत्वं प्रसक्तमिति व्यथै तपरत्वं स्यात् । ननु सत्यपि परेण ग्रहणे "ऊर्जत" [पासू०-७-४-७] इत्यत्र तपरत्वं वृथैव । भाव्य. मानेन सवर्णग्रहणाप्रसकेरिति चेत् ? न, वक्ष्यति हि तत्र वृत्तिकारः-न चायम्भाव्यमानोऽण किन्तु आदेशान्तरनिवृत्यर्थ स्वरूपेणाभ्यनुज्ञायते इति । कृते तु तपरत्वे तद्वलादेव दीर्घस्थाने भाव्यमानताऽपि लभ्यते इत्यन्यदेतत् । तस्माद् ग्रहणकशास्त्रेण परेणेति स्थितम् । तत्फलं तु "उरण रपरः' (पा०स०१-१-५१] इत्यत्र उरित्यनेन प्रकारस्य ग्रहणाद् "ऋत इद्धातोः" [पा०सू०७-१-१००] 'उदोष्ठ्यपूर्वस्य" [पा० सू०७-१-१-१०२] इत्यादौ रपरत्वसिद्धिः । “ठूलोपे पूर्वस्य दीर्घोडणः" (पासू०६-३-१११) इत्यत्रापि हलामणामसम्भवादेचान्तु विशेषाभा. वादनर्थकमेवाणग्रहणं स्यात् । ततश्च "अचश्च" (पा००१-२-२८) इत्येव सिद्धमित्यण्ग्रहणसामर्थ्यात्पूर्वेण ननु "वृहू उद्यमने" [तु०प०] अस्मात्तृचि ऊदित्वादिडभावे गुणे ढत्वधत्वष्टुत्वढलोपेषु रेफस्य दीर्धे स्थानसाम्यादृकारे ढलोपस्यासिद्धत्वाद् "उपधायाश्च" (पा०सू०७१-१-१०१) इतीत्वे पूर्ववद् गुणे 'वी' इति यथा स्यादिति परेण ग्रहणं स्यात् । एवं तर्हि 'तृतीया' इति निर्देशाल्लिङ्गात्पूर्वेणैव । परेण हि ग्रहणे "हलः" [पा०सू०६-४-२] इत्यत्राप्यस्यैवाण्ग्रहणस्यानुवृत्तेस्रः सम्प्रसा. रणे छते दीर्घः स्यात् । तथा हढादिषु वृढशब्दस्य पाठोऽपि शापको