________________
१९२ शब्दकौस्तुभप्रथमाध्याप्रथमपादसप्तमालिकेदेशा भवन्ति" (प०भा०१२) इति । तेन "पादः पत्"(पा०सु०६-४-१३०) इत्यस्यायमर्थः-पाच्छब्दान्तं यदङ्गं तदवयवस्य पाच्छब्दस्य सर्वस्य पदादेश इति । “अलोऽन्त्यस्य"(पासू०१-१-५२) "आदेः परस्य" (पा० सू०१-१-५४) इति तु योगी आरम्भसामर्थ्यादस्य बाधकी। "अनेकाल. शित्सर्वस्य' (पा०सू०१-१-५५) इत्यनेन तु सहाविरोधादस्य समुच्च. येन प्रवृत्तिरिति । एवं स्थिते मन्त्राद्याश्रयणेन प्रागुक्तोऽपि सूत्रार्थः सु. वचः । फलं तु स्फुटप्रतिपत्तिरिति दिक् । ___ स्थानेऽन्तरतमः (पासू०१-१-५०)। प्राप्यमाणानां मध्ये सरशतम आदेशः स्यात् । सारश्यं च चतुर्धा । स्थानतोऽर्थतो गुः णतः प्रमाणतश्चेति । स्थानतो यथा-सुध्युपास्यः । मध्वरिः । धात्रंशः । लाकृतिः । यत्तु यथासंख्यसूत्रेणैवेहान्यथासिद्धिरित्युक्तं भाज्यादौ, तदभ्युच्चयमात्रम्, अर्थतः साम्यविवक्षायां यथासंख्याला. भात् । इको हि षट्षष्टिः यणस्तु सप्तति वैषम्यात् । अथेक्शब्दाद्यणश. ब्दाच प्रथमं चतुर्णी चतुर्णामुपस्थितेरस्त्येव साम्यमिति चेत्तर्हि सु. ध्युपास्येति दीर्घस्य कथं यणादेशः । इकारेण ग्रहणादिति चेहि त तीयेन ऋकारेण चतुर्थेन लकारेण च परस्परस्य महणाल्लाकृती रेफ. प्रसङ्गः धात्रंशे च लकारप्रसङ्गः, यवौ च सानुनासिकनिरनुनासिको न व्यवतिष्ठयातामिति दिक् ।
दैत्यारिः, श्रीशः, इत्याद्यपीहोदाहरणम् ।
अर्थतो यथा । वातण्ड्ययुवतिः । वतण्डशब्दाद "वतण्डाच" (पासु०४-१-१०८) इत्यपत्ये यञ् । तस्य "लुस्त्रियाम्" (पासू० ४-१-१०९) इति लुक् । शाङ्गरवादित्वान् ङीन् । वतण्डी चासो युवतिश्चेति विग्रहे "पोटायुवति'' (पा०सू०२-१-६९) इत्यादिना समासः । "पुंवत्कर्मधारय" (पासू०६-३-४२) इत्यतिदिश्यमानः पुंशब्दो वतण्डापत्यवाचिनो वतण्डीशब्दस्य तदपत्यवाची वात. ण्ड्यशब्दो भवति ।
गुणतो यथा-पाकः। त्यागः । “चजोः कुपिण्ण्यतोः" (पासू० ७-३-५२) इति चकारस्याल्पप्राणस्याघोषस्य ताश एव ककारा । जकारस्य तु घोषस्याल्पप्राणस्य नादवतः स्थाने ताडगेव गकारः।
प्रमाणतो यथा-अमुम । अमू । अमून् । “अदसोऽसेः" (पासू० ८-२-८०) इत्यनेन इस्वस्य इस्वो दीर्घस्य दीर्घ उकारः।।
इह स्थाने इत्यनुवर्तमाने पुनः स्थानेग्रहणादन्योऽपि वाक्यार्थः सम्मतः । ताल्वादिरूपे स्थाने योऽन्तरतमस्तत्प्रयुक्तान्तर्यवानिति याः