________________
विधिशेषप्रकरणे अन्तरतमपरिभाषाप्रकरणम् ।
वत् । स प्राप्यमाणानां मध्ये स्यादिति । तदुक्तम्- "यत्रानेकविधमान्तं तत्र स्थानत आन्तर्य बलीयः" इति । तेन 'चेता' 'स्तोता' इत्या दौ प्रमाणत आन्तर्यवानप्यकारो न भवति । वाक्यभेदे च तमब्ग्रहणमेव लिङ्गम् । एकस्मिन्नेव वाक्यार्थे संमते हि "स्थानेऽन्तर" इत्येव ब्रूयात् । सिद्धान्ते तु 'वाग्घरिः' इत्यादौ "सोष्मणः सोष्माणः" इति द्वितीयाः प्रसक्ताः ' "नादवतो नादवन्त" इति तृतीयाः प्रसक्ताः, तमग्रहणात्तु चतुर्था भवन्ति । ते हि सोष्माणो नादवन्तश्च । ऊष्मा ऊ मत्वं वर्णधर्मस्तत्सहिताः सोष्माणः । तथा च बहुचानां प्रातिशा ख्यम् - "वर्गे वर्गे च प्रथमावघोषौ युग्मौ सोष्माणावनुनासिकोऽन्त्यः " ( ऋ०प्र०१ - ३ ) इति । " शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः इति शिक्षा । इह त्रीणि वाक्यानि । उष्मशब्दश्च धर्मिवचनः । शषसहा उष्माण इति प्रथमवाक्यार्थः । सस्थानेने. ति "इत्थंभूतलक्षणे तृतीय। " (पा०सू०२-३ - २१) | हशषसाः क्रमेण ख-छ-ठ-थानां द्वितीयानां सस्थानाः । यथा हादय उष्माणस्तथैव खादयोऽपीत्यर्थः । फकारस्य तु यद्यपि सस्थान ऊष्मा नास्ति तथापि तस्य विशिष्यैव ऊष्मत्वं बोध्यम् । हकारेण चतुर्था इति । यथा हकार ऊष्मा एवं तेऽपीत्यर्थः । नन्वेवम् 'इष्टः' 'उप्तः' इत्यादावान्तर्यादर्धमात्रस्य यणः स्थाने अर्द्धमात्र इक् स्यात् । 'दध्यत्र' 'सुध्युपास्यः' इत्या दौ तु मात्रिकद्विमात्रिकयारिकास्तथाविध एव यण् स्यादिति चेत् ? न, अर्द्धमात्रस्येको मात्रिकद्विमात्रिकव्यञ्जनस्य च लोकवेदयोरप्रसिद्ध
त्वात् । योस्ति स एव भविष्यति ।
१९३
इह भाष्ये अन्तरतम इति सप्तम्यन्तपाठोऽप्युपन्यस्य दूषितः । तः थाहि, "अन्तरतम उरण् रपरः" इति संहितया तावत्सुत्रकृदपाठीत् । पदकारास्तु व्याख्यातारः । तत्र सप्तम्यन्तमपि शक्यं छेत्तम । षष्ठीति चानुवर्त्तते । अन्तरतमे स्थानिनि षष्ठी उपसंहर्त्तव्ये सूत्रार्थः । एवं च "अक सवर्णे दीर्घः " ( पा०सु०६-१-१०१) इत्यत्रस्य दीर्घस्यान्तर. तमे स्थानियक इति षष्ठ्या उपसंहारात्सिद्धमिष्टम् । तथा " वान्तो यि -प्रत्यये” (पा०सू०६-१-७९) इत्यत्र एच इत्यनुवृत्तायाः षष्ठ्या वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात्सिद्धम् । अन्यथा एज्मात्रस्य व ेन्तादेशः स्यात् ।
अत्रेदं दूषणम् - "इको यणचि” (पा०सू०६-१-७७) इति यण् हस्वा नमेव स्यान्न तु दीर्घाणाम् । भर्द्धमात्रस्य हि मात्रिकः सन्निकृष्ट इति तत्रै वेक इति षष्ठ्या उपसंहारात् । तथा "इको गुणवृद्धी" (पा०सु०१-१-३)
शब्द प्रथम. 19.