________________
१९४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिके
"अचोणिति" (पा०सू०७-२-११५) इति षष्ठ्योर्गुणवृछोरन्तरतमेष्वेव स्वक्षु चोपसंहारात् 'नेता' 'लविता' 'नायकः' 'लावकः' इत्यादावेवस्या. त् । 'चेता' 'स्तोता' 'चायकः' 'स्तावकः' इत्यादौ तु न स्यादितिदिक । तदेवं सप्तम्यन्तपक्षस्य दुष्टत्वात्प्रथमान्तपक्ष एव युक्त इति स्थितम् ।
स्यादेतत्, एवं सति एजमात्रस्य वान्तादेशः स्यादिति चेत् ? अत्राहुः-पूर्वसूत्रे तावद्यथासंख्यं प्रवृत्तम् । अन्तरतमपरिभाषा वा । अर्थाधिकारश्चेहाश्रीयते । यादृशो वान्तादेशः पूर्व दृष्ट ओकारस्था. निकोऽव औकारस्थानिकश्चाव तादृशी यि प्रत्यये भवतीति सुत्रार्थः । यद्वा, वान्त इति न करिष्यते । न चैवं 'चेयं' 'नेयम्' इत्यादावति. प्रसङ्गः "क्षय्यजय्यौ" (
पासू०६-१-८२ इति यांगो विभज्यते कण्ठता. लव्यस्य चेद्वति क्षिज्योरेवेति नियमपरतया व्याख्यानात् । क्षिज्योः शक्यार्थ एवेति द्वितीयसूत्रार्थः । तेनाहाद्यर्थे तयोरपि नेति बोध्यम् । नन्वेवमपि शाहरवादिगणपठितेन "नृनरयोवृद्धिश्च" (गसू०१२५) इति सूत्रेण नरशब्दस्य 'नारी' इति रूपं न सिचेत् । तथा हि, नरशब्दस्य ङीन्संनियोगेन विधीयमाना वृद्धिः “अलोऽन्त्यस्य" (पा०सू०१-१-५२) इत्यन्त्यस्य स्यात् । तथाच “यस्येति च' (पा०स०६-४-१४८) इति लोपेन तस्यानिवृत्तौ वृद्धिवचनं व्यर्थ स्यात् । न च नृशब्दार्थ तदिति वाच्यम, एवं हि सति 'नुवृद्धिश्च' इत्येव ब्रूयात् । न च नरशन्देऽपि परत्वाद् “यस्य" (पा०सू०६-४-१४८) इति लोपे कृते वृद्धिर्भवन्ती नानथिंकेति वाच्यम, प्रत्ययसन्नियोगशिष्टत्वेन वृद्धेरन्तरङ्गत्वात् । ननु वचनसामर्थ्यावृधा लोपो बाध्यताम्, आहो स्विदन्तरङ्गपरिभाषां बाधित्वा परत्वाद्यस्येति लोपे कृते वृद्धिर्भवत्विति संशये परिभाषा बाध एव न्याय्यः। तदुक्तम् “अङ्गगुणविरोधे च तादात्" (जैसू० १२-२-९-२५) इति । किश्च "वाह ऊठ्' (पा०सू०६-४-१३२)इत्यत्र शा. पितत्वेनानुमेयायाः परिभाषाया एव बाधेनोपपत्तौ साक्षाच्छुतस्य "यस्य" (पा०स०६-४-१४८) इतिलोपस्य बाधोऽनुचितः । तथाच लोपे कृते वृद्धिरिति सिद्धं 'नारी' इति रूपमिति चेत ? सत्यं सिद्धं, किन्तु सप्तम्यम्सच्छेदपक्ष एव । तत्र हि प्रकृतितोऽन्तरतमानिवृत्तिरिति वृधन्तरतमे स्थानिनि षष्ठ्या उपसंहारात अकारस्य वृद्धिर्भवति। प्र. थमान्तच्छेदपक्षे त्वादेशतोऽन्तरतमनिवृत्तिरिति "अलोऽन्त्यस्य" (पा०स०१-१-५२) इति वचनाद्रेफस्य स्यात् । तस्मात्सिद्धान्ते 'नारी' इति रूपं नरशब्दस्य दुःसाधमिति पूर्वः पक्षः।
अत्राहुः-गरशब्दपाठस्य प्रत्याख्यानमेव भाग्यकृतोऽभिप्रेत स.