________________
वाधिशेषप्रकरणे अन्तरतमपरिभाषासूत्रम् ।
सम्यन्तपक्षनिराकरणभाष्येण तथैवानुमानात् । न चैवं नरशब्दाज्जातिलक्षणङीषि सति 'नरी' इति रुपं स्यादिति वाच्यम् , इष्टापत्तेः । तथाच प्रयुज्यते "किन्नरीणां नारीणाम्" इति । यद्वा, नरशब्दस्य नियतपुल्लिं. गत्वमेवास्तु । तथाच कातिप्रसङ्गः ? उक्तप्रयोगस्तु पुंयोगलक्षणे ङोषि भविष्यति, यथान्यासेऽपि तस्य दुर्वारत्वात् । अथवा "नृनरयोः" (ग०सू०१२५) इत्यत्रात इति वर्तते "अजाद्यतष्टाप्' (पा०सू०४१-७) इति सूत्रात् । तच्चानुवृत्तिसामर्थ्यात्षप्ठ्या विपरिणतं नरश. ब्देन सह वैयधिकरण्येन सम्बध्यते, न तु नृशब्देन, असम्भवात् । तस्मात्सिद्धं 'नारी' इति । __ अत्रेदं वक्तव्यम् । प्रत्याख्यायतां नाम नरशब्दः "नृनरयोः” (ग. सू०१२५) इति पठतः सूत्रकृतो मते तु कथमुक्तिसम्भवः ? 'न च 'नरी' इत्येवेष्टमिति वाच्यम् , वृद्धिविधायकसूत्रमध्ये नरशब्दपाठस्य वैफ. ल्यापत्तेः । अत इत्यनुवृत्त्या समर्थनमपि क्लिष्टम् , एकदेशानुवृत्तिविभ. क्तिविपरिणामाद्याश्रयणात् । किश्च'नृनरयोः” (गसू०१२५)इति गणपाठ पठ्यते, न त्वष्टाध्याय्याम् । गणे चात इति न प्रकृतम् । तथा "शाई. रवाद्यः " (पा०सू०४-१-७३) इत्यादिशब्देन गणसूत्रमपि हृदयमाग. मध्य तत्रात इत्यस्यान्वयो वाच्यः, स च क्लिष्टतर इति स्पष्टमेव । तस्मादित्थं समाधेयम्-नर इति रान्तं लुप्ताकारानुकरणं तस्य आ नरः । नुश्च नरस्येवेति द्वन्द्वः । चादणे पाठाच ङीन् । यद्वा, "स्थाने. ऽन्तरतमः" (पा०सू०१-१-५०) इत्यत्र तन्त्रेण वेधा छेदः सूत्रकृतः स. म्मतः, भाष्योक्तरीत्या लौकिकन्यायाश्रयणेन मुत्रप्रत्याख्यानपक्षेऽपि हि प्रकृतित आदेशतश्चेत्युभयथाप्यन्तरतमनिवृत्तिरस्त्येव । सूत्रकृतो मते वाचनिकी सा। भाज्यकृतस्तु न्यायसिद्धेत्यन्यदेतत् । तथा च "वान्तो यि" (पासू०६-१-७९) "नृनरयोः" (ग०सू०१२५) इत्यादि सर्व सुस्थमेव । अत एव चतुर्थे स्थानितोऽन्तरतमनिवृत्तिमाश्रित्य 'नारी' इति रूपं साधयन्हरदत्तोपि न विरुध्यते । “इको यज' (पा०स०६१-७७) इत्यादापतिप्रसङ्गः परमवशिष्यते । स च "ल्वादिभ्यः (पा०सू० ४-४-४४) "स्वादीनां इस्वः" (पा०सू०७-३-८०) इत्यादिशापकेन वाच. निक्या न्यायमूलिकाया वा स्थानितोन्तरतमनिवृत्तेरनित्यतामाश्रित्य परिहर्तव्य इति दिक्।
सूत्रप्रत्याख्यानप्रकारस्तूच्यते । सभायामास्यतामित्युक्ते हि पण्डि. ता पण्डितैः सह समासते, शूराः शरैः, कवयः कविभिः, म तु सङ्क रेण । किंबहुना गवां सडं प्रति गौर्धावति, अश्वोऽश्वानामित्यादिव्य.