________________
१९६.
शब्दकौस्तुभप्रथमाध्यायप्रथमपदिसप्तमाह्निके—
वस्था तिर्यक्ष्वपि दृश्यते । तस्मात्प्रथमवाक्यार्थस्य लोकत एव ला भान्न तदर्थे सुममारम्भणीयम् । एवं" स्थानत आन्तर्य बलीयः " (प०भा०
१३) इत्यपि लोकत एव सिद्धम् । तथाहि, भूयः सहचरितयोरश्वयो. गोर्वा सजातीयान्तरसम्बलने सत्यपि कृशत्वपाण्डुत्वादिगुणसदृशानपि हित्वा स्थानसाम्यपुरस्कारेणैव परस्परापेक्षा दृश्यते । तदेवं लोकतः सिद्धे किं वचनेनेति ॥
उरण् रपरः (पा०सु०१-१-५१) । ऋवर्णस्य स्थाने यो ऽण् स प्रस ङ्गावस्थायामेव रप्रत्याहारपरस्स्यात् । ऋकारेण सावयत्रिशत उपस्थाने सति स्थानेऽन्तरतमपरिभाषया रश्श्रुतिमतः स्थाने रपरो लश्रुते. स्तु लपर इति विवेक्तव्यम् । 'कृष्णार्द्धः' 'तवल्कारः' । ऋलस्थाने योऽण् इति ग्रन्थस्तु यथासंख्यभ्रमापाद कोऽसङ्गतश्च, शब्दतः साम्येनाभिमतानिर्वाहात् । न हि सूत्रे शब्दद्वयमस्ति । अर्थतस्तु नतरां साम्यम् । अथात्र न यथासंख्यमभिमतं तर्हि किं वृत्तिमध्ये द्वयोरेव विशिष्योल्लेखनेन ? आ च भा च रलौ ऋलोः स्थानमिति विग्रहे उश्च उल् च ऋलोरितिविग्रहे वा द्वन्द्वस्य दुर्लभत्वाच्च । स हि "विरूपाणा मत्रि समानार्थानाम्' (का०वा० ) इत्येकशेषेण बाध्यते । चित्रगुशहृदस्य चित्रगवी परतायामिव साधुत्वनिर्वाहार्थे लक्षणमाश्रित्य लक्षितलक्षणया शक्यार्थे पर्यवसानमिति कथञ्चिन्निर्वाहस्तु ग्रन्थे श्रद्धालुभि. रास्थेय इति दिक् ।
18
अत्र पक्षचतुष्टयं सम्भाव्यते - उ:- स्थाने रपरो ऽण् स्यादिति रपत्वविशिष्टोऽण् विधीयत इति प्रथमः पक्षः । उः स्थाने अणामनणां च प्रसङ्गे अणेवेति नियमः । स च रपर इति वाक्यभेदेन रपरत्वं वि धीयत इति द्वितीयः पक्षः । उः स्थाने योऽणित्यनूद्य तस्य रपरत्वं वि. धयित इति तृतीयः पक्षः । प्रसङ्गावस्थायामेव रपरत्वं विधीयत इति चतुर्थः । तत्राद्ये पक्षे नाप्राप्तेषूदात्तादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्यालाभात् । एवं तदा वचनव्यक्तिःषष्ठीनिर्दिष्टमात्रस्य भवन्नादेशो ऽन्तरतमः स्यात्, ऋवर्णस्य त्वण् रपर इति । ततश्चोदात्तानुदात्तस्वरितानुनासिकेषु दोषः । तथाहि, 'कृतिः' इत्यत्र "नित्यादिर्नित्यम्” (पा०सू०६-१-१९७) इति प्राप्तम् ऋकारं बाधित्वाऽण् रपरः स्यात् । तथा 'प्रकृतं ' 'प्रहृतम्' इत्यत्र "गतिरनन्तरः" - ( पा०स०६-२-४९) इति पूर्वपदप्रकृतिस्वरे कृते शेषनिघातम् "उदात्ताइनुदात्तस्य” (पा०सु०८-४-६६ ) इति स्वरितं च बाधेत । तथा 'नृःपाहि' इत्यत्र " नृम्पे" पा०सू०८-३-१०) इति ज्ञापकात् पूर्वसवर्णदर्घि सम्भवे