________________
विधिशेषप्रकरणे आदेशनियामकप्रकरणम् ।
१९१
त्यैाणादिक इप्रत्यय ईमागमः । निपातनात्सिद्धम् । भरुजाशब्दो ह्यङ्गुल्यादिषु पठ्यते मरीचिशब्दो बाव्हादिषु । उणादिषु तु "मृकणिभ्या मीचिः” ( उ०सू०४ - ५१९) इति ईचिप्रत्ययं कृत्वा मरीचिशब्दो व्युत्पा. दितः । तदुपायान्तरं बोध्यम् ।
एच इग्घ्रस्वादेशे ( पा०सू०१-१-४८ ) । आदिश्यमानेषु हस्वेषु मध्ये एच इगेव स्यात् । हेशब्दमतिक्रान्तं कुलमतिहि कुलम् | चित्रगुः । अतिरिः । अतिनु । यदत्र वक्तव्यं तदभोसुत्रे एवोक्तम् ।
षष्ठी स्थाने योगा ( पा०सू०१-१-४९) । अनेकसम्बन्धपरतया स. म्भाव्यमाना षष्ठी स्थानप्रयुक्तसम्बन्धपरेति बोध्यम् । "अस्तेर्भूः” ( पा०स्०२ - ४ - ५२) अस्तेः समीपोऽनन्तरो वेति संशये तत्स्थाने उच्चारणीय इत्यर्थः । स्थानं च प्रसङ्गः । दर्भाणां स्थाने शरैः प्रस्तरितव्यमि तिवत् । तथा च इगुच्चारणे प्रसक्ते यणुच्चारणीय इत्याद्यर्थपर्यवसाने सामीप्यादयः सम्बन्धा अर्थाद्या वृत्ताः । योगः सम्बन्धः, स बहुवि घोऽस्त्यस्या इति योगा । अर्शआदित्वान्मत्वर्थीयोऽच् । स च भूति, अन्यथा विशेषणवैयर्थ्यापत्तेः । तेनानेकसम्बन्धपरतया सम्भाव्यमा नेत्यर्थो लभ्यते । अयोगेऽति वा छेदः । अनिश्चितयोगविशेषत्यर्थः । योगेत्ययोगेति वा किम् ? “ऊदुपधाया गोहः " ( पा०सु०६-४-८९ ) “शास इदड्हलोः” (पा०सू०६-४-३४) इत्यादौ शास इत्यत्र मा भूत् । सति हि तत्रापि स्थानयोगत्वे गोहिशासोः स्थाने धातुमात्रस्योपधायाश्च ऊदितौ स्यातामिति दिक् ।
यद्वा, स्थाने योगो यस्या इति बहुव्रीहिः । अत एव निपातनात्सतम्या अलुक् । यद्वा, स्थानेन योगोऽस्या इति विग्रहः । निपातनादे. त्वम् । न चानयोः पक्षयोर्गोहः शास इत्यादावतिप्रसङ्गः, परिभाषाणामनियमे नियन्तुं प्रवृत्तेः । युक्तं चैतत् । आकाङ्क्षा पूर्वकत्वात्सम्बन्धस्य, इह चोपधासन्निधानेनावयवषष्ठीत्वे निर्णीते आकाङ्क्षाविच्छेदात् । लोकेऽपि हि पन्थानं पृच्छन्तं प्रत्यमुष्मिन्नवकाशे दक्षिणो ग्रहीतव्योSमुष्मिन्नुत्तर इत्यादावुपदिष्ट सति यत्र मार्गद्वैधात्संशयस्तत्रैव तदुपतिष्ठते न त्वसंदिग्धे तिर्यक्पथेऽपीति दिक् ।
भाष्यकारास्त्वाद्दुः -"अस्तेर्भूः " ( पा०स्०२ - ४ - ५२ ) इत्यादावनेकसम्बन्धप्रसङ्गेऽपि लक्ष्यानुरोधादन्तरङ्गत्वात "स्थानिवदादेशः " ( पा० सु०१-१-५६) इति ज्ञापकाच्च स्थानेयोगतैव व्याख्यास्यते । तस्मान्नायमेतस्य सुत्रस्य सुत्रार्थः, किन्तु षष्ठ्यन्तमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमिति सुत्रार्थः । तदेतदुच्यते "निर्दिश्यमानस्या: