________________
१९० शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिकेस्यापीति चेत् ? न, बाध्यसामान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्व बाध्यते इतीहाभ्युपगमात् । अन्यथा नमो मित्करणं व्यर्थ स्यात् । न. च श्रवणार्थ एव श्रमो मकार इति वाच्यम् , "तृणह" (पा०सू०७-३९२) इति निर्देशात् । अच इति जात्यभिप्रायेणेकवचनम् । निर्धारणे षष्ठी । न चान्त्यादित्यनेन सामानाधिकरण्यादच इति पञ्चम्येवास्ता. मिति वाच्यम् "शे मुचादीनाम्" (पासू०७-१-५९) इत्यादावन्त्य. स्याचोऽसम्भवेनैतत्परिभाषाया अप्रवृत्तावलोन्त्यपरिभाषाप्रसङ्गात् । तथाच तत्र मित्करणवैयापत्तेः । पूर्वसूत्रे आद्यन्तावितिसमासनिर्दे: शेऽपाहान्तप्रहणमात्रमनुवर्तते एकदेश एव स्वरितत्वप्रतिज्ञानात । तेन मित्पूर्वान्तः । यदि त्वभक्तः स्यात्तदा 'ताता पिण्डानाम्' इत्यादौ "शेश्छन्दसि बहुलम्" (पा०सू०६-१-७०) इति शेर्लोपे कृते नलोपो न स्यात्,प्रातिपदिकान्तत्वाभावात्। तथा 'वहंलिहः' इत्यत्र"वहाभ्रे लिहः" (पासू०३-२-३२) इति खशि "अरुषिदजन्तस्य" (पा०स०६-३-६७) इतिममि"मोऽनुस्वारः"(पासू०८-३-२३)इत्यनुस्वारोन स्यात , अपदा. न्तस्वात् । यदि त्वादिग्रहणमनुवयं परादिः क्रियेत, तदा 'वारिणे' इत्या. दौ 'घेडिंति" (पा०सू०७-३-१११) इति गुणः स्यात् , 'वहंलिहः' इत्यत्रा. नुस्वारो न स्यात् , 'अतिशयितः सखा येषां तान्यतिसखीनि ब्राह्मणकु. लानि' इत्यत्र "सख्युरसम्बुद्धौ' (पा००७-१-९२) इति णित्त्वप्रयुः का वृद्धिः प्राप्नोति । सा हि गौणत्वेऽपीप्यते अस्थ्याधनवत् । एत. चेह सूत्रे भाग्यकैयटयोः स्फुटम् । तस्मात्पूर्वान्तपक्ष एवात्र स्थितः ।
अत्र वार्तिकम्-अन्त्यात्पूर्वो मस्जेरनुषासंयोगादिलोपार्थम् । म नः । मनवान् । "ओदितश्च" (पास्नु०८-२-४५) इति निष्ठानत्वम् । तस्यासिद्धत्वात्कुत्वम् । “मस्जिनशोझलि" (पा०सु०७-१-६०) इति नुम् । स च यद्यन्तादचः परः स्यात्तदा "अनिदिताम्" (पासू०६४-२४) इत्यनुषङ्गलोपो न स्यात् । उपधाभूतस्य नकारस्यानुषङ्ग इति प्राचां संक्षा । अथ "स्कोः " (पा०सू०८-२-२९) इति सलोपे कृते नकार उपधात्वाल्लुप्यतामिति चेत् ? न, नलोपं प्रति “स्कोः" (पासु०८२-२९) इतिलोपस्यासिद्धत्वात् , बहूनां समवाये समुदायस्यैव संयो. गसंक्षेति पक्षे सलोपस्याप्राप्तेश्च । तथाच 'मला' 'मतव्यम्' इत्याद्यपि प्रयोजनं बोध्यम् ।
भर्जिमयोश्च । अन्त्यात्पूर्वो मित् इत्यनुवर्तते । "भृजी भर्जने" (भ्वा०आ०१७८) अस्मादौणादिके आचि कृते ऊमागमः भरूजा। "मर्च शब्दार्थे"(चु०प०१६५०)चुरादिकः,अस्माद्,“अच "(उ०पू०४-५८८) इ.