________________
२६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निकेसू०८-२-७) "दिव उत्" (पा०सू०६-१-१३१) 'इकोऽसवर्ण शाकल्यस्य हुस्वश्च" (पा०सू०६-१-१२७) इत्येते विधयःप्रसज्येरन् । न च भसंशया पदसंज्ञाया बाधः, भिन्नावधिकत्वात् । भसंज्ञा हि समस्तस्य प्राप्ता पद. संज्ञा तुत्सरखण्डस्य । अत्र भाष्यम् । मसंज्ञासूत्रे "सुप्तिङन्तम्" (पा० सू०१-४-१४) इति सूत्रात्सुबन्तमित्यनुवर्तनीयम् । तदयं सूत्रार्थः यजादो असर्वनामस्थाने परे यस्मात्प्रत्ययविधिस्तथाभूतः पूर्वः समुदायो भसंसो भवति, तदवयवभूनं सुबन्तं यद्यस्ति तर्हि तदपि भसंशं स्यात् यजादावनन्तरे इति । इह च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवय. घस्य त्वन्वाचयशिष्टा “कर्तुः क्यङ् सलोपश्च" (पासू०३-१-११) इति पत। तेन 'राशः' इत्यादौ सुबन्तावयवाभावेऽपि भवति, सुबन्तावयव. सत्वे तु तव समुदायस्य चेत्युभयोरपि भवतीति विवेकः । नन्वेवमपि 'परमवाचौ' 'परमवाचः' इत्यादौ भत्वाभावात्पदकार्य स्यादेवेति चेत् ? न, तत्र भत्वाभावपि “असर्वनामस्थाने" इति पदसंशानिषेधात् । “स्वा. दिवसर्वनामस्थाने" (पासू०१-४-१७) इत्यत्रापि हि सुबन्तमित्यनु. धर्तते । प्रसज्यप्रतिषेधश्चायम् । तत्सामर्यादनन्तरस्य विधिर्वेति न्या. यो नाश्रीयते । तदयमर्थ:-सर्वनामस्थाने परतः पूर्वः समुदायः पदं न स्यात्, तदवयवभूतं सुबन्तं च पदं न स्यादिति । तत्र समुदायस्य "स्वा विष" (पासू०१-४-१७) इति प्राप्ता, अवयवस्य तु सु(१)बन्तमिति प्राप्ता पदसंबाऽनेन निषिद्धति 'परमवाचौ' इत्यादि सिद्धम् । नन्वेवं 'सु. धाक सुराजा' इत्यादी कुत्वादि न स्यात् , सावपि समुदायस्यावयवस्य च प्राप्तयोदयोरपि पदसंज्ञयोनिषेधादिति चेत् ? न, असर्वनामस्थान ह. त्यत्रोत्तरसूत्राधचीत्यपकुष्य यजादौ सर्वनामस्थाने उभयविधपदसंज्ञा. निषेधात् । सौ तु द्विविधापि पदसंज्ञा भवत्येव । नन्वेवं श्रयमाणे सो पूर्वस्य पदसंह स्यादिति चेत् ? इष्टापत्तेः । नन्वेवम् "एचोऽप्रगृह्यस्या. दरादधते पूर्वस्थाईस्यादुत्तरस्येदुतौ'' (पासू०८-२-१०७) इति सूत्रे भवङ्करोषि गौः' इत्यत्रातिप्रसनं वारयितुं पदान्तग्रहणं कर्तव्यमिति धार्तिककृता वक्ष्यमाणं विरुध्येत, क्रियमाणेऽपि पदान्तग्रहणे दोषता. हवस्थ्यादिति चेत् १ न, तत्रान्तग्रहणमानं कृत्वा "वाक्यस्य टे" (पा० स०८-२-८२) इत्यतो वाक्यप्रहणमनुवयं वाक्यान्तस्येति व्याख्यानस म्भवात् । तदेव समासे चरमभागस्य पदसंज्ञा यजादौ कापि नास्तीति स्थितम् । कचिनिषेधारक्वचित भत्वेन बाधादिति विशेषः । नन्वेवं 'दान्मुक्तम्' इत्यादावलुङ् न स्यात, 'होतापातारौ' इत्यत्राऽऽनङ् न स्यात,
(१) "सुप्तिङन्तं पदम्" (पासू०१-४-१४) इत्यनेनेत्यर्थः।