________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम्। २६९ उत्तरपदे तद्विधानादिति चेत ? न, उत्तरपद शब्दस्य समासोत्तरावयवे रूढतया पदसंशाविरहेऽपि तत्प्रवृत्तेः। सर्वान्त एव चेयं रूढिः । तेन 'होतृपोतनेष्टोद्गातारः' इत्यत्र मध्यमानामुत्तरपदत्वाभावात्ततः पूर्वस्याsऽनङ नेति दिक। नन्वेवं 'दधिसेचौ, 'दधिसेचः' इत्यत्र "सात्पदा. घोः" (पा०स०८-३-१११) इति षत्वनिषेधो न स्यादिति चेत् १ न, पदाः दादिः पदादिस्तस्य षत्वं नेति व्याख्यानात । न चैवं 'रामेषु' 'हरिषु' इत्यत्रापि निषेधः स्यादिति वाच्यम् स्वादाविति या पदसंज्ञा तामुपजीव्य पदादेति निषेधाप्रवृत्तः । एतच सात्प्रतिषेधेन शाप्यते । उक्त श्व-पदादादेनेत्येव व्याण्यानं न तु पदस्यादेरिति । तथा सति "गति. कारकोपपदानाम' (प०भा०७६) इति सुबुत्पत्तेः प्रागेव समासे 'दधिसेक' इत्यादौ षत्वस्य दुारतापत्तेः । नन्वेवमपि 'बहुसेचौ, 'बहुसेचः' इत्यत्र षत्वं स्थादेव बहुचोऽपदत्वेन षत्वप्रतिषेधाप्राप्तेरिति चेत् ? स. त्यम्, वचनमेवेह कर्त्तव्यम्-"बहुचपूर्वस्य न" इति । अत्रायं सुत्रन्या. स:-"सातेः" सः षत्वं न स्यात् । ततः "बहुचपदाभ्याम्" आभ्यामुत्त. रस्य सस्य षत्वं न स्यात। आदिग्रहणं न कर्तव्यम् "तस्मादित्युत्तरस्य" (पा०सु०१-१-६७) इत्येव सिखेः । तदिदं बहुग्रहणमादिग्रहणेन निमा. तव्यमिति । वार्तिके तु "उत्तरपदन्वे चापदादिविधौ" इति वचनेनैव 'परमवाचः' इत्यादि साधितम् । उत्तरस्य समासोत्तरभागस्य पदत्वे कर्तव्ये लुमता लुप्ते प्रत्ययलक्षणं न स्यात् । अतो न कुत्वादि । पदादिविधौ तु प्रत्ययलक्षणं स्यादेव । तेन षत्वनिषेधाद् 'दधिसेचा' इत्यादिसिद्धिः । अस्मिश्च पक्षे प्राक् सुबुत्पत्तेः समासोऽत्र नाभ्युपगन्तव्यः 'धनकीता' इत्यादिसिद्धये तस्यानित्यताया वक्ष्यमाणत्वात् । कैयटस्त्वा. ह-'दनः सेचौ' इति विग्रहे “षष्ठी” (पासू०२-२-८) इति समासः न त्वयमुपपदसमासः । सोपपदात्तु विज् नास्ति, अनभिधानात् । अ. तः 'दधिषेचौ' इत्यादि न भवत्येव । अस्मिन्नपि पक्षे "बहुपूर्वस्य च" इति वचनं कत्तळमेव । कृते हि बहुचि विशिष्टस्यार्थवत्त्वेन प्रातिपदि. कत्वे सुपो लुकि च कृते पुनर्विशिष्टात्सुबन्तरमुत्पद्यते इत्यर्थवत्सूत्रे व. झ्यते । तत्रान्तर्वर्तिनी विभक्तिमाश्रित्य प्राप्तं पदत्वं, तत्कुत्वादो कर्तव्ये मा भूत, षत्वनिषेध एव यथा स्यादिति । अत्रायं निष्कर्षः-पूर्व(१) सूत्रे एव स्थित्वा "उत्तरपदत्वे च पदादिविधौ" "बहुपूर्वस्य च" इति पाठ्यम् । पदादिविधावेव प्रत्ययलक्षणं भवति न तु पदान्तविधाविति नियमार्थ चेदं वचनद्वयमिति व्याख्येयम् । एवञ्च न न कर्त्तव्य इति
(१)"प्रत्ययलोपे प्रत्ययलक्षणम्" (पासू०१-१-६२) इत्यत्रेत्यर्थः।