________________
" विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् । २६७ कैयटाविप्रन्यास्तु सामान्यापेक्षं झापकमाश्रित्य योजयितव्या इति । 'अत्रयः' इत्यत्र तु स्वरो न भवति, लुकि कृते कार्यिणोऽभावात् । प्रत्य. यलक्षणं हि यदन्यस्य कार्य तत्प्रत्ययलोपेऽपि भवति, न तु प्रत्ययस्यैष यत्कार्य तदपि । न च प्र(१)त्ययग्रहणपरिभाषया तदन्तग्रहणं स्यादिति पाच्यम् । "येन विधिः, (पासू०१-१-७२) इतिसूत्रेणैव तल्लाभस्व व. क्ष्यमाणत्वात् । विशेषणविशेष्यभावे च कामचारात् । नन्वेवमपि स्था. निषत्स्त्रेण स्यादेवोदात्ततेति चेत् ?न, लोपस्याभावरूपतया तदीयान्त. स्य तदुदासतायाश्च बाधात् । अत एव हि 'अभूत्' इत्यादौलुप्तस्य सिचो नेट् । न हामावस्थ भावोऽवयवः सम्भवति । भाग्यमते "अनल्विधी" (पासू०ए०१-१-५६) इति निषेधाच । विधिजादीनां त “नेडवारी" (पा०म०७-२-८) इतीनिषेधोऽप्यस्ति । न चैवं नवनिर्भिन्ने ऐस्प्रसङ्गः, तस्यापि लुकापहारादिति विक् । वस्तुतो यदङ्गमिति व्याख्यानादः'रा. जपुरुषः' इत्यापि निर्बाधम्, भसंक्षाया निषेधेनाल्लोपाभावात, सुब. न्तत्वप्रयुक्तपदसंखया नलोपाच। तथा 'अहर्ददाति' इत्यत्र रेफोऽपि सिः । असुपीति निषेधो हि वस्तुतोऽङ्गस्य कार्यमिति नेह प्रवर्तते । अगाधिकारनिर्देशे तु प्रवर्ततासौ । अत एव "अहो रविधौ" इति षच. ममारभ्यते । न चासुपीति वचनसामर्थ्यात्प्रत्ययलक्षणेनासुपीति निषेधो नेति वाच्यम्, 'दीर्घाहो निदाघः' इत्यादी हलङयादिलोपेऽपि रेफाप. सेः। एतेन 'असुपि' इति पयुवासमाश्रित्य 'महर्ददाति' इत्यत्र दाधातोः सुम्मिन्नस्य सत्वाद्रेफ इत्यपि कल्पनमपास्तम्, 'दीर्घाहो निदाघः' इत्य. प्रातिप्रसङ्गात् । यद्यपि रुत्वरत्वयोरसिद्धतया पूर्व नलोपे कृतेऽकारस्यैव रुत्वरत्वे प्राप्नुतस्तथापि रुत्वरत्वयोर्विषये नलोपो नेप्यते, रुत्वरत्वो. भयारम्भसामर्थ्यात् । नाकारस्य रौ रे वा विशेषोऽस्ति । न च सम्बु. खौ नलोपनिषेधाद् 'हे अहर्गच्छ' 'हे दीर्धाहो निदाघ' इत्यत्र चरिता. र्थता, एवमपि “रूपरात्रि" (का०या०) इति रुत्वस्य वैयापत्तेः । नन्वे. तदपि सम्बोधने चरितार्थमिति चेत् १ सत्यम्, “अहन्" (पा०स०८२-६८) इत्यावत्यैकेन नलोपाभावनिपातनास्सिमिति दिक् ।
स्यादेतवा परमवाचा, परमगोदुहा, परमलिहा, परमदण्डिना, पर. मदिवा, परमकुमार्या' इत्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्योत्तरखण्डस्य पद. संज्ञा स्यात् । ततश्च "चो कुः"(पा०९०८-२-३०)"दादेर्धातोः "(पा.सू. ८-२-३२)"होढः" (पासू०८-२-३१) "नलोपःप्रातिपदिकान्तस्य"(पा.
(१) "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य प्रहणम्" इत्यनयेत्यर्थः।