________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
वस्तुतस्तु नैतदर्थे वचनं क्रियते ज्ञापकबलेनैव 'बिदाः' 'गर्गाः' इत्यादेः सिद्धत्वात् । तथाच "संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इति सुत्रे वार्त्तिकम् - "उपमानस्याद्युदात्तत्ववचनं शापकमनुबन्धलक्षणे स्वरे प्रत्यपलक्षणप्रतिषेधस्य" इति । अस्मिश्च पक्षे "पथिमयोः सर्वनामस्थाने लुमता लुप्ते प्रत्ययलक्षणं न भवति” इति वचनमेव कर्त्तव्यम् । न हायमनुबन्धलक्षणः स्वरः, येनोक्तशापकबलेन वार्येत । न च स्वरमात्रविष यकं ज्ञापकमिति वाच्यम्, आमन्त्रितस्वरसिज्लुक्स्वरयोरसिद्धिप्रलङ्गात् । न चैवमपि सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं न भवतीति ज्ञाप्य तामिति वाच्यं, 'सर्वस्तोमः' इत्यत्राद्युदात्ताऽसिद्धिप्रसङ्गात् । यद्वा, अस्तु सप्तमीनिर्दिष्टस्वरविषयकमेव शापकम् । "सर्वस्य सुपि" (पा०सु०६-१-१९१) इति सप्तमीमपनीय सुप इति षष्ठी पाठ्या । तथाच पथिस्वरार्थे वचनं नारम्भणीयम् । नित्कित्स्वरार्थे तूमयथाऽपि नारम्भणीयमिति सर्वे सुस्थम् । पक्षद्वयमपीदं “संज्ञायामुपमानम्'' (पा०सु०६-१२०४) इति सूत्रे भाष्यकारैः स्पष्टमुक्तम् । तदयं निर्गलितार्थः - त्रिसुत्र्यां शङ्कितस्यातिव्याप्तिदोषस्य वचनेनोद्धारमापातत उक्त्वा शापकेनैवैष्ट सिद्धिरिति निष्कर्षोऽग्रे कृत इति । एतच्च समाधानमङ्गाधिकारो निर्दिश्यत इति पक्ष इव वस्तुतोऽङ्गस्य यत्कार्यमिति निष्कृष्टपक्षेऽपि तुल्यम् । अत एव "संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इति सूत्रे भाग्यकारैः पक्षद्वय साधारण्येनैवोक्तशापनवार्तिकं योजितम् । प्रकृतसुत्रस्थभाष्यकैयटयोस्तु निष्कष्टपक्षे उकदोषप्रसङ्ग एव नास्तीति लभ्यते । तत्रेत्थमाशयमभियुक्ता वर्णयन्ति - शापकं द्विविधं सामान्यापेक्षं विशेषापेक्षं च । तत्र यदा "भीही" (पा०सु०६ - १ - १९२) इत्यत्र पूर्वप्रहणेन यंत्र सप्तम्यर्थपक्षे तदन्तप्रहणपक्षे व फलभेदः तत्रैव सौवर्यः सप्तम्यस्तदन्तसप्तम्य इति ज्ञाप्यते । यथा "भीही" (पा०सु०६-१-१९२ ) इत्यत्रैव पूर्वग्रहणाभावे तदन्तस्य कार्यित्वे प्रत्ययान्तानां भ्यादीनामुद्दास इत्यलाऽन्त्य परिमा·
२६६
या प्रत्ययान्त एवोदात्तः स्यात्, सप्तम्यर्थाश्रयणे तु पितमपहाय भ्यादीनामेवोदासः स्यादिति स्पष्टः फलभेदः । तथा "उपोत्तमं रिति” (पा०सु०६-१-२१७) "चडयन्यतरस्याम्" (पा०स्०६-१-२१८) इत्यप्रापि । "नित्यादिर्नित्यम्" (पा०स्०६-१-१९७) “पथिमयोः सर्वनामस्थाने" (पा०स्०६-१-१९९९) इत्यादी तु नास्ति फलमेदः । तदन्तस्य हि कार्यित्वे प्रकृत्यादेरेवोदात्तत्वं निदादिपूर्वस्यापि कार्यित्वे तथैवेति । तथाच तत्र सौधर्य इत्यस्याप्रवृत्त्या तदन्ताकार्यित्वादुक्तदोषस्याप्रसङ्ग एवेति । " संज्ञायामुपमानम्" (पा०सु०६-१-२०४) इत्यत्र भाष्य