________________
विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् । २६५ (८-१-१७)इत्यधिकृत्य विहितः"तिङतिङः"(पासू०८-१-२८)इति निः घातः। अत्र हि दधि इत्यस्य पदसंज्ञार्थ प्रत्ययलक्षणमपेक्ष्यते । तथा 'इह तिष्ठ' इत्यादौ तिङन्तत्वलाभायापि । नन्वेवं 'सर्वस्तोमोऽतिरात्रः' इत्यत्र "सर्वस्य सुपि" (पासू०६-१-१६१) इत्यायुदात्तत्वं न स्यात् । तथा 'स. पिरागच्छ' 'सप्तागच्छत' इत्यत्र "आमन्त्रितस्य च" (पा०सू०६-१-१९८) इति षाष्ठमायुदात्तत्वं न स्यात् । तथा'मा हि दाता, मा हि धाताम्' इत्यत्र "आदिः सिचोऽन्यतरस्याम्" (पा०सु०६-१-१८७)इत्याधुदात्तत्वं न स्यादित्यत आह सर्वेत्यादि । इदं स्वरत्रयं विहाय स्वरान्तरे प्रतिषेध इत्यर्थः । न च 'सर्वस्तोमः' इत्यत्र "बहुव्रीहौ प्रकृत्या पूर्वपदम्" (पासु०६-२-१) इति पदवयस्वरोऽयमिति वाच्यम् "सर्वस्य सुपि" (पा०स०६-१-१९१) इति यदाधुदात्तत्वं तस्यैव ह्यनेन प्रकृतिभावमात्रं कर्तव्यम्, तथा च तत्प्राप्तिरवश्यापपादयितव्येति भावात । न च सर्पिशब्दस्यामन्त्रितः स्वरं विनाऽप्याधुदात्तता लब्धं शक्या "अर्चिशुचिहुसृपिछादिछर्दि: भ्यः" (उ०सू०२७३)इत्यौणादिके इसि प्रत्यये कृतेऽन्तोदात्तत्वात् । अव्युः स्पत्तिपक्षेऽपि फिट्स्वरेण तथात्वात् । न च "नविषयस्य" (फि०सू०२६) इत्याद्यदासः 'अनिसन्तस्य' इति पर्युदासात । कैयटेन तु सर्पिःशब्द. स्य घृतादित्वं किमर्थ कल्पितमिति चिन्त्यम् । ननु सप्तशब्दः "सप्य. शूभ्यां तु च" (उ०सू०१६३) इति कनिनन्तो व्युत्पादितः। तथाच नित्त्वात् आधुदात्तः, अव्युत्पत्तिपक्षेऽपि तथैव "ब्रः संख्यायाः" (फिसू०२८) इति वचनादिति चेत ? न, उभयथाऽपि घृतादित्वे. नान्तोदात्तत्वात् । तथा च प्रयुज्यते "लप्त युञ्जन्ति रथमेकचकम्" इति । इह सिज्लुग्ग्रहणं माऽस्तु । "गातिस्था" (पा०सू०२-४-७७) इत्यत्र सिग्रहणसामर्थ्याल्लुकि स्वरः सिद्धः । अन्यथा हि लाघवार्थ च्लेरेव लुकं विदध्याता एवं हि 'अभूत्' 'अपात्' इत्यादिसिद्धये "अस्तिसि. चोऽपृक्त' (पा००७-३-९६) इत्यत्र सकारान्तरप्रश्लेषक्लेशोऽपि नाश्र. यणीय इति । न चैवं च्लेलुकि "आतः" (पासु०३-४-११०) इति सूत्र विध्यर्थमेव स्यान तु नियमार्थम् , तथाच तत्र लनिवृत्तये लिलुकीति वक्तव्यं स्यादिति विपरीतगौरवापत्तिरिति वाच्यम् ? ङित इत्यनुवृत्त्यैव लटो व्युदस्तत्वात् । तस्मात्सर्वामन्त्रितस्वरवर्जमित्येवावश्यकम । वार्तिकारम्भस्य प्रयोजनमाह-प्रयोजनमिति । प्रिनिशब्दयोरिकार उ. चारणार्थ: "सुतिथो" (पा०स०३-४-१०७) इतिवत् । एते स्वरा निवः य॑मानतया प्रयोजनमित्यर्थः। प्रयोजनान्तरमाह-पथिमथोरिति । तदेवं वचनबलेन त्रिसूच्या अतिव्याप्तिरुद्धर्तव्येतीह सूत्रे स्थितम ।