________________
विधिशेषप्रकरणे प्रत्ययलक्षणसूत्रम् ।
कुण्डिनजादेशे कौण्डिन्यशब्दादपि "कण्वादिभ्यो गोत्रे" (पा००४२-१११) इत्यणि कृते, "आपत्यस्य" (पासू०६-४-१५१) इति यलोपे 'कौण्डिनाः इत्येव भवितव्यम् । तस्माद् "आगस्त्यकौण्डिन्ययोः (पा० सु०२-४-७०) इत्यत्रावश्यमनुव] लुग्ग्रहणम् । ततश्चेह प्रत्ययग्रहणम. पि कर्तव्यमेवेति । मैवम् , “आगस्त्यकौण्डिन्ययोः" (पा०सू०२-४-७०) इत्यत्र "यस्कादिभ्यो गोत्रे" (पासू०२-४-६३) इति गोत्रग्रहणमनुवर्त्य गोत्र यो विहितस्तस्य लुगिति व्याख्यानेनापीष्टसिद्धः । तस्मादत्र प्रत्या यग्रहणं माऽस्त्विति स्थितम् ।
स्यादेतत् । एवं सति लोपसंझया लह लुगादिसंज्ञानां तुल्यव्यक्ति. कत्वं स्यात । तद्भावितस्य संक्षेति चेत् ? अविशेषाल्लोपेऽपि तथा स्यात् । उच्यते । असजातविरोधित्वाल्लोपसंक्षा तावददर्शनमात्रस्य भवति । लुगादिसंज्ञासु परमनेकसंक्षाप्रणयनसामर्थ्यात्तद्भावित प्रहः । तेन संशासङ्करो नेत्युक्तम् । सति तु सङ्करे 'हन्ति' इति शबलाक "लो" (पा०स०६-१-१०) इति द्वित्वं स्यात् । 'जुहोति' इत्यत्र श्लो सति "उतो वृद्धिलुकि हलि" (पासू०७-३-८९) इति वृद्धिः स्यात् । न च तत्राभ्यस्तस्य न(१)इत्यनुवृत्तेः योयोति' 'नोनोति' इत्यादाविव वृद्धिन भविष्यतीति वाच्यम् , संक्षासंकरपक्षे तदनुवृत्त्यसम्मवात् । अन्यथा सुत्रस्य निर्विषयतापत्तेः। न च योतिरौतीत्यादिरवकाशः, संशासडरे तत्रापि द्वित्वस्य दुर्वारस्वात् । लोपसंशा तु लुगादिसंज्ञानां व्यापिकेत्युक्तम् । तेन 'पश' इत्यादौ प्रत्ययलक्षणं सिध्य. तीति दिक् ।
भाष्यमते तु यद्यपि स्थानिवत्सूत्रेण 'पञ्च' इत्यादि सिद्धमः, तथा. पि 'सुहषद् ब्राह्मणः' इत्यत्र वक्ष्यमाणरीत्योत्तरपदाधुदात्तत्वस्योपधा. दीर्घस्य च वारणाय लोपे सति प्रत्ययलक्षणमेवेति नियमोऽपश्यं प्रव. स्तनीयः । तथाच तत्र लुकः प्रत्ययसंचाऽप्यादर्तव्येत्यवधेयम् ।
प्रत्ययलोपे प्रत्ययलक्षणम् (पा०सु०१-१-६२)। प्रत्यये लुत्तेऽपितदा.
कार्य स्थान । “अल्विध्यर्थमिदम्" इति वार्मिकमतम् । तथा. हि, 'अतृणेट्' इत्यत्र तिपो हल्ङयादिलोपे कृते "तृणह इम्" (पा०स० ७-३-२२) इति सूत्रेण विधीयमानोहलादिपित्सार्वधातुकनिमित्त इमा. गमोऽस्माद्वचनाद्भवति । स्थानिवत्सूत्रेण तु न सिध्यति, अल्विधि
(१) "नाभ्यस्तस्याचि मिति सार्वधातुके' (पासू०७-३-८७) इति सूत्रादिति शेषः।