________________
२५८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
स्थानिविशेषसमर्पणार्थमपिन । तथाहि,"अत्रिभृगुकुत्स"(पा०सू०२४-६५)इत्यत्र तावत् “यस्कादिभ्यो गोत्रे" (पा०सू०२-४-६३) इत्यतो 'गोत्रे' इत्यनुवर्तते । तेनाध्यादिभ्यो यो विहितस्तस्य लुक सिद्धः । “ज. नपदे लुप" (पा००४-२-८१) इत्यत्र तु "ज्याप्रातिपदिकात' (पा० सू०४-१-१) “प्रत्ययः” (पासू०३-१-१) इत्यनुवृत्तः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्य लुप् । “लवणाल्लुक्" (पा०सू०४-४-२४) इत्यत्र प्रकृतत्वाठक एव । सर्वत्रापि इह 'प्रत्ययः' इत्यस्य षष्ठी कल्पयिष्यते "तस्मादित्युत्तरस्य" (पा०स०१-१-६७) इति ।
स्यादेतत् । सर्वादेशार्थ प्रत्ययग्रहणम् । तेन “यत्रञोश्च" (पासू० २-४-६४) "सुपो धातुप्रातिपदिकयोः" (पा०स०२-४-७१) इत्यादिषु यत्रोनकाल् प्रत्ययस्तत्र "अलोऽन्त्यस्य" (पासू०१-१-५२) इति न भवति । तथा "लवणाल्लुक" (पासू०४-४-२४) इत्यादौ "आदेः पर. स्य" (पा०सू०१-१-५४) इति न भवतीति । मैवम्, ज्ञापकादेव सर्वादे. शत्वसिद्धेः । "घोर्लोपो लेटिवा" (पासू०७-२-७) इति हि लोपे प्रकृते "लुग्वा दुह" (पासू०७-३-७३) इति लुग्ग्रहणं शापयति लुगादयः सर्वा देशा इति । अलोऽन्त्यस्य ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । न च वैपरीत्यापत्तिः, असञ्जातविरोधित्वेन लोपेऽलोन्त्यपरिभाषायाः प्रवृत्तेः। सामान्येन लुमद्विषयं शापकं न तु लुङ्मात्रविषयमिति सर्व सिद्धम् । __ स्यादेतत् । “आगस्त्यकौण्डिन्ययोः (पासू०२-४-७०) इत्यत्र "लु. गणिोः " (प्रा०स०ए०२-४-५८) इत्यतो लुग्ग्रहणमनुवर्तते न वा? आ. ये स्थानिनौ द्वौ आदेशास्तु लुका सह त्रयः, इति वैषम्याद्यथासङ्ख्या भावे एकैकस्य त्रय आदशाः पर्यायेण स्युः। ततश्चागस्तयोऽपि कुण्डि नाः स्युः, कुण्डिनाश्चागस्तयस्स्युः । लुक्च क्रियमाणो शापकात्सर्वा. देश इति उभयत्रापि विभक्तिमा श्रयेत । अथ निवृत्तं ततोऽगस्तयः कुण्डिना इत्यत्र न कश्चिदोषः। किन्तु अगस्तीनां छात्राः 'आगस्तीयाः' इत्यत्र प्रागदीव्यतीये, अजादौ प्रत्यये विषक्षितेऽप्यगस्त्यादेशस्य निषे. धाभावाद निवृत्ताववृद्धत्वाच्छो न स्यात् । प्रत्ययग्रहणे सति तु लुग्न. हणानुवृत्त्या आगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लग्मवति, अवशिष्टभा• गयोर्यथासंख्यमगस्तिकुण्डिनचौ । तेन 'अगस्तयः' 'कुण्डिनाः' इति सिद्धम । प्राग्दीव्यतीये विवक्षिते तु गोत्रे लुगचि" (पा०स०४-१-८९) इति लुकि प्रतिषिद्ध तत्सन्नियोगशिष्टत्वादगस्त्यादेशऽपि निवृत्ते आग. स्त्यशब्दाद्वृद्धाच्छे कृते "सूर्यतिष्य" (पासू०६-४-१४९) इति यलोपे च आगस्तीयाः' इति सिद्ध्यति । कौण्डिन्ये तु नास्ति विशेषः। निवृत्तेऽपि,