________________
स्फोटनिरूपणम् ।
"अक्षरं न क्षरं विद्यात्" इत्यस्य कैयटीये पाठान्तरम् । "आद्यन्ती टकितौ" इतिसूत्रे च भाष्य एव वर्णस्फोटपदस्फोटावुक्तौ । अस. त्यमेव प्रकृतिप्रत्ययविभागं तदर्थ चाश्रित्य रेखागवयन्यायन सत्य. स्य पदस्फोटस्य व्युत्पादनमभिप्रेतमिति तत्रैव कैयटः । "अर्थवद. धातुः" "स्वं रूपं शब्दस्य" "तपरस्तत्कालस्य" इत्यादिसूत्रेष्वपि स्पष्टमिदं भाष्यकैयटादावित्यलं बहुना। जातेश्च ब्रह्मात्मकत्वमुक्तं हरिणा
सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षत ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ इति । जातेः स्फोटत्वमपि प्रघट्टकान्तरे स एवाह
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता।
कैश्विद्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ इति । यद्यपीहाष्टौ पक्षा उक्तास्तथापि वाक्यस्फोटपक्षे तात्पर्य ग्रन्थ कृताम् । तत्रापि जातिस्फोटे इत्यवधेयम्, पूर्वपूर्वोपमईनैवोत्तरोत्त. रोपन्यासात् । तथाच प्रथमव्युत्पत्तर्यवहाराधीनतया संपूर्णस्य वा. क्यस्य विशिष्ट प्राथमिकः शक्तिग्रह इति निर्विवादम् । स चावापो. द्वापाभ्यामवयवानां शक्तिरिति न्यायोपष्टम्भन त्यज्यत इति दर्शना न्तराणां पन्थाः । एकादेशादिस्थले उक्तरीत्या विनिगमनाविरहेण कैश्चित्पररूपादिस्थले पूर्वलोपाद्यभ्युपगमेन च व्याकरणानां कलहे सति अवयवशक्तेदुरुपपादतया प्राथमिकशक्तिग्रह एव प्रमारूप इति तु सैद्धान्तिकः पन्थाः । उक्तं च हरिणा
तत्र यन्मुख्यमेकेषां तत्रैतेषां विपर्ययः॥ इति । ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ इति च । एवंस्थिते निपाता द्योतका विकरणा अनर्थका इत्यादिविचारो. ऽपि प्रक्रियादशायामेव । आह च
अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ इति । तारशोऽखण्ड इत्यर्थः । एवञ्च 'नामार्ययोरभेद एव संसर्गः' 'प्रत्ययार्थः प्रधानम्' इत्यादिव्युत्पत्तयोऽपि प्रक्रियाश्रया एव । उक्तं च
किंगजन्ये किंगर्भ कीडग्भातीति नो मते । विचारः फलितः सर्वः प्रकृतिप्रत्ययाश्रयः ॥ इति ।