________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाहिके
भर्तृहरिरप्याह
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ॥ इति । तस्मादखण्डं पदं वाक्यं वेति ॥ ५ ॥ पञ्चापि व्यक्तिस्फोटा. घान्तरभेदाः ।
जातिस्फोटवादिनस्तु घोत्तरटत्वादिकं शक्ततावच्छेदकतया आ. द्यपक्षत्रयेऽपि यथायथं वाच्यम् । अन्यथा सरो रस इत्यादावर्थवि. शेषप्रतीत्यनापत्तेः । तच्च उपाधिरूपम् । उपाधिश्च परम्परासंबद्धा जातिरेव । सा च सर्वाधिष्टानब्रह्मस्वरूपात्मका। तथा च शक्यांश इव शक्तांशेऽपि न्यायसाम्येनाकृत्यधिकरणरीत्या ब्रह्मतत्त्वमेव तत्त. दुपहितं वाच्यं वाचकं च । अविद्यविद्यकधर्मविशेषो वा जातिरि. ति पक्षे तु सैव वाचिकाऽस्त्वित्याहुः ॥ ८॥ ___अष्टावयेते पक्षाः सिद्धान्त ग्रन्थेषु तत्रतत्रोपनिबद्धाः। तथा हि, स्थानिवत्सूत्रे "सर्वे सर्वपदादेशाः" इतिभाष्यग्रन्थः । पद्यतेऽर्थो. ऽनेनेति अर्थवदिह पदं न तु सुप्तिङन्तमेव । तथाच "एरुः" इत्यस्य तेस्तुरित्यर्थ इति टीकाग्रन्थश्च वर्णस्फोटेऽनुकूलः । तथा स्थान्य. र्थाभिधानसमर्थस्यैवादेशत्वमिति स्थानेन्तरतमपरिभाषयैव "तस्थ. स्थमिपाम्" इत्यादिषु निर्वाहात्तदर्थ यथासंख्यसूत्रं नारब्धव्यमिति भाष्यमपि । पदस्फोटवाक्यस्फोटौ तु इहैव प्रघट्टके “येनोच्चारितेन" इति भाष्यप्रतीकमुपादाय कैयटेन भाज्यार्थतया वर्णितौ । वर्णव्य. तिरिक्तस्य पदस्य वाक्यस्य वति वदता तयोरखण्डताप्युक्ता । "नि. त्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यम्" इति तत्रतत्र भाष्ये सखण्डतोक्ता।
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु।
अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ॥ इत्यमरः । पस्पशायामेव प्रघट्टकान्तरे "किंपुनः" इत्यादि भाग्य. मुपादाय 'कोचिद्वर्णस्फोटमपरे पदस्फोटं वाक्यस्फोटं चाहुः' इति वदता कैयटेन “अइउण्" इत्यत्र व्यक्तिस्फोटजातिस्फोटयोर्बलाबलं चिन्त. यता प्रत्याहारान्हिकान्ते "अक्षरं न क्षरं विद्यात्" इति भाष्यव्याख्यावसरे व्यवहारनित्यता तु वर्णपदवाक्यस्फोटानां, नित्यत्वं तु जातिस्फोटस्ये. ति प्रतिपादयता, अनुकदमेव ब्रह्मतत्त्वमेव हि शब्दरूपतया प्रतिभाती. त्यर्थ इति व्याचक्षाणेन सर्व पक्षाः सुचिता एव । यदा तु अविद्यैव जातिरिति पक्षस्तदभिप्रायेण जातिस्फोटस्यापि व्यवहारनित्यतेति