________________
स्फोटनिरूपणम् ।
वस्तुतस्तु वाचकता स्फोटेकनिष्ठा । तत्र चाष्टा पक्षाः-वर्णस्फो. टः १, पदस्फोटः २, वाक्यस्फोटः ३, अखण्डपदस्फोटः ४, तारवा. क्यस्फोटः ५, इत्थं पञ्च व्यक्तिस्फोटाः, वर्णपदवाक्यभेदेन त्रिविधो जातिस्फोट इति । तथा हि, किञ्चिद्वर्णव्यत्यासादिना शक्ततावच्छे. दकानुपूर्वाभङ्गस्य प्रति पदमौत्सर्गिकत्वात्तत्र च केनचित्वचित्प्रथम शक्तिग्रहाकेन कस्य स्मारणमित्यत्र विनिगमनाविरहादृषभो वृष. भो वृष इत्यादाविव कर कार कुर् चकर इत्यादीनां प्रयोगसमवायि. नां सर्वेषामेव वर्णानां तत्तदानुपूर्व्यवच्छिन्नानां वाचकतेति वर्ण. स्फोटपक्षः । कर्मभृतयो वाचका न वेति चेह विप्रतिपत्तिशरी. रम् ॥१॥ 'राम रामेण रामाय हरये हरौ हरीन्' इत्यादौ परिनिष्ठिते रूपे कियानंशो द्रव्यादिवाचकः कियांश्च कर्मत्वादेरित्यस्य विनिगन्तुमा शक्यतया राममित्यादिपरिनिष्ठितं पदमेव वाचकं कर्मत्वादिविशि. ष्टस्येति पदस्फोटपक्षः ॥२॥ दूधीदं, हरेव, विष्णोव, इत्यादावपि विनिगमनाविरहतौल्याद्वाक्यमेव विशिष्टार्थ शक्तमिति वाक्यस्फो. टः ॥ ३ ॥ एकः पट इति वदेकं पदं वाक्यं वेत्यबाधितप्रतीतेर्वर्णातिरिक्तमेव पदं वाक्यं वा अखण्डं वर्णव्यङ्ग्यम् । एकत्वप्रतीतिरो. पाधिकीति चेत् ? पटेपि तथात्वापत्तेः ॥ कः पदार्थोसाविति चत ? भावः । भावविशेषेषु क्वान्तभवतीति चेत् ? त्वत्परिभाषितेषु द्रव्यादिषु मान्तर्भूत् । न तावता प्रमाणसिद्धं प्रत्याख्यातुं शक्यः ते । अनियतपदार्थवादे गौरवमिति चेत् ? व्यक्तीयत्ता तवा. पि नास्ति । उपाधीयत्ता तु सर्वैः सुवचा । भावत्वाभावत्वा. भ्यां नित्यत्वानित्यत्वादिना वा विभजनात् । भावविभाजकोपाध. यस्तु घटविभाजकोपाधिवदेवाऽनावश्यकाः। अस्मिश्च पक्षद्वये व. की अप्यनावश्यकाः । नन्वनुभवसिद्धास्ते इति चेत् ? व्यञ्जकध्व. निविशेषोपहितस्फोट एव ककाराद्यात्मना व्यवहियते इत्यभ्युप. गमात । भाट्टमते तारो मन्दो गकार इतिवत् अद्वैतसिद्धान्ते विष. यसंबन्धजन्यवृत्तिवैचित्र्येण व्यङ्गये स्वरूपसुखे वैचित्र्यवञ्च । अत. एव वाचस्पतिमिश्रास्त त्वबिन्दौ "वस्तुतः ककारादतिरिच्यमा. नमूर्तेर्गकारस्थाभावात्" इति स्फोटवादिमतमुपन्यास्थत् । यथा वा अखण्डेष्वपि ऋकारादिषुवर्णेषु वर्णान्तरसमानाकारैकदेशावभासा, तथाऽत्र पक्षे वर्णावभासोऽपि भविष्यति । उक्तं च बोपदेवेन
शक्यत्व इव शक्तत्वे जातेाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत ॥ इति ॥