________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादप्रथमाह्निके
यत्तु तैरुक्तं शानजंशे "कर्त्तरि कृत् इति व्याकरणं शक्तिग्रा हकमस्तीति तदप्यापाततः, कृद्वाक्यशेषोऽयमनिर्दिष्टार्थेषु ण्वुलादिषूपतिष्ठते न तु शत्रादिषु स्थान्यर्थेन निराकाङ्क्षत्वादिति वक्ष्यमाणत्वात् । आकाङ्क्षितविधानं ज्याय इति न्यायात् । अन्यथा क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तेश्च । किञ्च "कर्त्तरि कृतू" इति यत्कर्तृग्रहणं तदेव "लः कर्मणि" इत्यत्राप्यनुवृत्तं, तत्कथं कृतां ति• डां च वैलक्षण्यम् ? अम्यलभ्यत्वादेरुभयत्र साम्यात् ।
39
-
यत्तु नामार्थयोरभेद एव संसर्ग इति हि शानजादौ कर्त्ता वाच्य इत्युक्तम्, तत्तु पचतिकल्पं पचतिरूपं देवदत्त इत्याद्यनुरोधात्तिङ्क्ष्वपि तुल्यम् । तस्मात्पररीत्या न कश्चिच्छत्रन्तात्तिङन्ते वैष म्यहेतुः । अस्मद्रीत्या तु "भावप्रवानमाख्यातं, सत्यप्रधानानि नामानि” इति निरुक्तकारोक्तेः प्रत्ययार्थ प्राधान्यमात्सर्गिकं तिषु त्यज्यते, 'प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् इति सूत्राच्च । शतृशानज्विधौ रूपविधौ च भाष्येऽपि स्फुटमेतत् । 'पाचको व्रज. ति' इतिवत् 'पचतिव्रजति' इति प्रयोगोऽप्यत एव नोपपद्यते, पचतो. रूपं पचन्ति रूपमित्यादौ रूपबाद्यन्ते द्विवचनादिकञ्च न भवति। तस्मा चिषु कृत्सु च विशेषणविशेष्यभावव्यत्यासमात्रमस्तीति वक्ष्यते ।
""
यत्त भट्टैरुकं - कर्त्तरि यदेकत्वं तत्रैकवचनं तिबिति लादिविधेः “ह्येकयोः” इत्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तुर्वाच्यता सू त्रादायातीति, तदप्यापाततः । द्विवचनादिसंज्ञा ह्यादेशनिष्ठा, ततश्च तद्विधिना "ह्येकयोः" इत्यस्य एकवाक्यता, न च तत्र कर्त्त· रीत्यस्ति, यद् द्वित्वादिविशेषणतया कथञ्चिद्योज्येत । लविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत् ? सत्यम्, वाक्यैकवाक्यता सा, न तु पदैकवाक्यता आदेशविधेर्लेविधिलभ्य लकारानुवादेन प्रवृत्तेः । लविधौ कर्तृग्रहणम् । स च द्विवचनादिसंज्ञा विनिर्मुक्त एव । अत एव आदेशस्मारिता लकारा बोधका इति पक्षे एकत्वादिमानायाऽऽदेशा एव शरणीकर्तव्याः । एवं गलादौ तिबादिद्वारकं लिडादिस्मरणं कल्प्यमिति महदेव गौरवम् । न च परम्परासम्ब न्धेन णलेव बोधकः, वृत्तिशून्यत्वात् । अत एवापभ्रंशानां साधुस्मारकताभ्युपगमस्तवापीति दिक् ।
तस्मात् " पूर्वत्रासिद्धम् " इत्यादौ यथा महार्यारोपेणैव व्या. ख्यानं सर्वसंमतं तथा शास्त्रीयप्रक्रियायां सर्वत्र ।