________________
स्थानिनां बोधकत्वनिराकरणेनादेशानां बोधकत्वनिरूपणम्। ५ काचित्कः प्रासङ्गिकस्तयेहापि लोकप्रसिद्ध दर्शनान्तरसिद्धं च प. दार्थजातमुपजीव्य शब्दमात्रव्युत्पादनं न विरुध्यते इति चेत् ? अ. स्तु तावदेवं, तथापि डोप्रभृतिव्युत्पादनं निष्फलमेव; इति चेत् ? अत्रोच्यते, गौस्तिष्ठति देवदत्तः पचतत्यादयः शृङ्गमाहिकया ता. वजन्मसहस्रेणापि बोधयितुं बोर्बु चाशक्या:, आनन्यात् । अतः प्रकृतिप्रत्ययविभागकल्पनारूपो लघुभूत उपायः समाश्रीयते लिपिवत् । आरोपित एव च तत्र सम्बन्धः। प्रसिद्धो हि स्थूलारुन्धती. शाखाचन्द्रादिन्यायो लोके, पञ्चकोशावतरणन्यायश्चोत्तरमीमांसा. याम् । तात्पर्यविषयाबाधाच्च प्रामाण्यम् । एषैव हर्थवादेष्वपि गतिः। आत्मवपोखेदनप्रभृतीनां बाधेऽपि तात्पर्यविषयीभूतस्य प्राशस्त्यस्याबाधितत्वात् । उक्तं च हरिणा
उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समोहते ॥ इति ॥
उपेयप्रतिपत्यर्थी उपाया अव्यवस्थिताः । इति च । अत एव हि केचित्सुप्रत्ययं विदधति, अपरे सिम् । तथा सू. त्ररीत्या 'पाठितम्' इत्यत्र इतप्रत्ययः, भाष्यरीत्या तप्रत्ययः, सूत्ररीत्या तावानिति वतुप "डावतावर्थवैशेष्यात्" इति वार्ति कोक्तरीत्या डावतुरिति दिक् ।। ___ एतेन 'पचति' इत्यादी आदेशैः स्मार्यमाणा लडादयो बोधका इति वदन्तः परास्ताः। तथा हि, वृद्धव्यवहाराच्छक्तिग्रह इति नि. विवादम्। ततश्च प्रयोगसमवायिनामेव तिप्रभृतीनां शक्तिः सिध्यति, न त्वलौकिकानां लादीनाम् । एवं डुपचष् डुकृञ् इत्यादिप्रकृतयो विच्. क्विबादिप्रत्ययाश्च न शक्ताः किन्तु अपाक्षीत पपाच पापच्यते करोति चर्करीति इत्यादिप्रयोगसमवायिनः अपाक् पपाच् इत्यादय एव । ___ श्रूयमाणेन दुपचप्रभृतीनां स्मरणं तेनार्थबोध इति चेत् ? न, लाघवाद्यवस्थितत्वाच्च श्रूयमाणानामेवार्थसम्बन्धकल्पनात् , औ. पक्षिकस्य स्मरणकल्पने गौरवात् , अव्यवस्थापत्तेश्च । 'पचति(१) दे. वदत्तः', 'पवन्तं तं पश्य' इति तिशतृभ्यां स्मारितस्य लट एव बोधकत्वे एकत्र आधाराधेयभावेन संसर्गेण देवदत्ते आख्याताओं यत्नो विशेषणामितरत्र तु अभेदेन संलगंण कदर्थः कर्चा विशेषणमिति त्वात्स. द्धान्तभङ्गापत्तश्च । एतेन कत्रधिकरणे आख्यातार्थत्वं कर्तुनिरस्य जज. भ्यमानाधिकरणे शानजथत्वं स्वीकुर्वन्तो मीमांसका अपि परास्ताः । (१) 'दोदनम्' क..