________________
४ शब्द कौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निके—
स्यादेतत्, गौरित्यादिः शब्द इह विषयः । तत्र च गकार औ• कारो विसर्गश्च घटकः । व्युत्पाद्यते तु डोप्रत्ययसुप्रत्ययवदेशादिकम् । न चैतद्रौरिति बोधे भासते । तथाचार्थान्तरता । गौरित्यनेन परिनिष्ठितेन सह डोप्रभृतीनां सम्बन्धविशेषस्तत्प्रतिपत्त्युपयोगिता चास्तीति तद्व्युत्पादनमिति चेत् ? न, शब्दान्तरव्यावृत्तस्य स. म्बन्धस्य उपयोगस्य च दुर्वचत्वात् द्रव्यगुणादिपदार्थानामिह व्युत्पाद्यतापत्तेश्च । अस्ति हि तेषां गौरित्यमेन वाच्यवाचकभावादिः सम्बन्धः । अत एव शाब्दबोधे गवि समवायेन गोत्वमिव शक्तयाख्यसम्बन्धेन शब्दो विशेषणतया भासते । चाक्षुषबोधेऽपि व्यक्तथा स्मारितः शब्दो विशेषणमित्यभ्युपगमः । आह चन सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वे शब्देन भासते । ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति । यत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ॥ पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥ इति च ।
युक्तं चैतत् गृहीतशक्तिकं प्रति शब्देनार्थस्येव अर्थेन शब्द - स्यापि स्मरणे बाधकाभावात् । अत एव गोत्वस्येव गोशब्दस्यापि व्यक्तिविशेषणस्वाविशेषात्संसर्गेऽपि तादात्म्यमेवास्तु । एवं गोगुणादिभिरपि तदभिन्नाभिन्नस्य तदभेदादित्याशयेन "अथ गौरित्य त्र कः शब्दः" इति प्रघट्टके द्रव्यगुणकर्मसामान्यैः सह शब्दस्याभे. दो माध्यकृद्भिराशङ्कय निराकृतः । तत्र निराकरणग्रन्थस्यायमाश. यः - समसत्ताकभेदाभेदौ विरुद्धावेव । अन्यथा त्वदुक्तरीत्या सत्तागुणत्वाद्यभेदात्सुखदुःखस्वर्गनरकादेरप्यभेदापत्तौ प्रवृत्तिनिवृत्ति व्यवस्था न स्यात्, न स्याच्च भेदग्रहाद् भ्रमनिवृत्तिः । जातिव्यक्त्यादिसम्बन्धस्त्वतिरिक्त एवेति । एवमेव शब्देनापि सहास्येव सम्बन्धो द्रव्यादीनामिति स्थितम् । अस्ति च द्रव्यादिव्युत्पादनस्थ प्रकृते उपयोगोऽपि । अस्मिन्नर्थेऽयं साधुरित्यर्थविशेषं पुरस्कृत्यैव साधुत्वस्य वक्तव्यत्वात् । अत एव वाजिनि दरिद्रे च क्रमेण अश्वशब्दो अस्वशब्दध साधुयुत्क्रमेण त्वसाधुरिति सिद्धान्तः ।
ननु यथा वैशेषिकादीनामेतच्छास्त्र सिद्ध मेव प्रकृतिप्रत्यय वि. भागमुपजीव्य पदार्थव्युत्पादनाय प्रवृत्तिः प्रकृतिप्रत्ययादिविचारस्तु
9