________________
लौकिकवैदिकसमस्तशब्दानां विषयत्यनिरूपणम् । अनुपूर्वकः शासिर्विविच्य ज्ञापने दृष्टः । तद्यथा-"अक्षेत्रवित् क्षेत्रविदं ह्यप्राट् स प्रेति क्षेत्रविदानुशिष्टः” । यथा वा-"संपूषन्विदुषा नय यो अञ्जसाऽनुशासति । य एवेदमिति ब्रवत्" । अत्र हि गुणत्रयोपेतेन सद्गुरुणाऽस्मान् शिक्षयेति पूषा प्रार्थते । तत्र अञ्जसेति शैष्यमुक्तम् । अनुशासतीति विविच्य बोधकत्वम् । "बहुलन्छन्दसि" इति शो न लुक् । इदमित्यमेवेति यो ब्रूयादिति प्रमेयनिष्कर्ष उकः । ब्रवदित्यत्र "लेटोडाटो" इत्यः । तथाच अ. नुशिष्यन्ते विविच्य असाधुभ्यो विभज्य बोध्यन्ते येनेति करणे ल्युट् । ततश्शब्दानामिति कर्मणि षष्ठी, तदन्तेन समासः । न च "कर्मणि च" इति सूत्रेण समासानषेधः शङ्ख्यः, तत्र च श(१)ब्दा. र्थतया कर्मणीति शब्दवता "उभयप्राप्तौ" इतिसूत्रेण या षष्ठी तदन्तं न समस्यते इत्यर्थात् । इयं तु “कर्तृकर्मणोः" इति विहिता षष्ठी, न तु "उभयप्राप्तौ" इति, आचार्यस्य क वस्तुतः सत्वेऽपी. हानुपादानात् । 'चित्रं गवां दोहो ऽगोपन' इत्यत्र हि आश्चर्य प्रति. पाद्यं, तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदेव निर्वहति, न त्वन्यथा । अतः कर्तृकर्मणोर्विशिष्योपादानादस्त्युभय. प्राप्तिः। इह तु शब्दानामिदमनुशासनं न त्वर्थानामित्यर्थनिवृत्तिपरं वाक्यं न तु कर्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः। अस्तु वा धथाकथञ्चिदुभयप्राप्तिः । तथापि न क्षतिः, "उभयप्राप्ती" इतिसूत्रे अविशेषेण विभाषेति पक्षस्यापि वक्ष्यमाणतया नियमाप्रवृत्तिपक्षे आचार्यस्य शब्दानुशासनमिति प्रयोगसंभवात् । शेषलक्षणा षष्ठी वाऽस्तु । तस्माद्वैदिका लौकिकाश्च साधवः शब्दा इह विषय इति स्थितम । वेदे भवा वैदिकाः, अध्यात्मादित्वाकृञ् । एवं लोके भवा लौकिकाः । यद्वा लोके विदिता लौकिकाः "तत्र विदित" इति वर्तमाने "लोकसर्वलोकाञ्" । प्रातिशाख्योश्विव न वैदिकैकदेशमात्र. मिह विषयः । न वा व्याकरणान्तरेष्विव छान्दसपरित्याग इति सू. चयितुमुभयोपादानम् ॥
॥ इति विषयनिरूपणम् ॥
(१) 'चशन्दस्य इतिशब्दार्थकतया' क० ।