________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादप्रथमाह्निकेण्यानिरुक्तेः केवलानामप्रयोगण अन्यलभ्यताऽपि तुल्यैव । विजयः ते इत्यत्र धातोर्विशिष्टजय इव घटश्चेत्यत्र समुचितघटे घटशब्द. स्यापि लक्षणायाः संभवात् । किश्च चादीनां वाचकत्वे समानाधि. करणप्रातिपदिकार्थयोरभेदान्वय इति व्युत्पत्तिनिपातेतरविषयक तया विना प्रमाणं संकोचनीया स्यात् , स्याञ्च समुच्चयादिशब्द. योग इव चादियोगेऽपि घटादेः षष्ठी । किञ्च समुच्चयादिपदैरुप. स्थिते यथा विशेषणसम्बन्धस्तथा चादिभिरुपस्थितेऽपि स्यात् । द्योतकत्वपक्षे तु पदार्थकदेशत्वान्न तत्र विशेषणान्वयः । अपि च
शरैरुनरिवादीच्यानुद्धारष्यन् रसानिव । इत्यादौ उस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यन्नित्यादि. रर्थः । स च उस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च तात्प. र्यग्राहकत्वे सत्येव लभ्यते । अन्यथा प्रत्ययानां प्रकृत्यान्वितस्वा. र्थबोधजनकताऽपि भज्येत । इवशब्दात्तु तृतीया दुर्लभा, असत्त्वा. र्थकतया कारकविभक्तचयोगात। एवमप्युरादिभ्यस्तृतीयायाऽनन्व. यस्यानुद्धाराच्च । नन्वेवं नञ्तत्पुरुषस्योत्तरपदार्थादिप्राधान्यमिः त्यादिसिद्धान्ता भज्येरनिति चेत् ? न, पूर्वपदद्योत्यं प्रति प्राधान्य. मिति तदर्थात् । द्योत्यार्थेना(१)प्यर्थवत्तेति प्रातिपदिकत्वसिद्धिः । अत एव येषां द्योत्योऽप्यों नास्ति "तु हि च स्म ह वै पादपूरणे" इत्यमरकोशात् "कमीमिद्विति पादपूरणार्थाः” इति निरुक्ताच, तदर्थ "निपातस्यानर्थकस्य" इति वार्तिकारम्भ इत्यवधेयम् । स्फुटश्वेदकैयटादिग्रन्थेषु । अत एवाऽऽकृत्यधिकरणे भट्टैरुक्तम्
चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः। क्रियते संशयोत्पत्ते!पसर्गनिपातयोः॥ तयोराभिधाने हि व्यापारो नैव विद्यते।
यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ॥ इति ॥ यत्तु अर्थवत्सूत्रे 'अधीते' इत्यादौ धातोरनर्थकता उपसर्गवि. शिष्टस्य वाचकतेति कैश्चिदुक्तं, तदभ्युच्चयमात्रम् । “सर्वस्य द्वे" इति सूत्रे कैयटादिग्रन्थोऽप्येवमेव । पूर्वोत्तरमीमांसयोस्तत्रतत्र नमः पर्युदासे लक्षणेति ग्रन्था अप्येवमेव, उक्तयुक्तेः । अस्तु वा मतान्तरं निपाता वाचका इति, सर्वथापि प्रादयो द्योतकाश्चादयस्तु वाचका इत्येवंरूपमर्द्धजरतीयं नैयायिकाभ्युपगतमप्रामाणिकमेवेति दिक् । (१) 'यात्यार्थे नैवार्थवत्ता' क० ।