________________
॥ श्रीः ॥
भट्टो जिदी क्षित वि र चितः। शब्दकौस्तुभः।
॥ श्रीगणेशाय नमः ॥ विश्वेशं सच्चिदानन्दं वन्देऽहं योऽखिलं जगत् ॥ चरीकर्ति बरीभर्ति संजरीहर्ति लीलया ॥१॥ नमस्कुर्वे जगद्वन्द्यं पाणिन्यादिमुनित्रयम् ॥ श्रीभर्तृहरिमुख्यांश्च सिद्धान्तस्थापकान्बुधान् ॥ २॥ नत्वा लक्ष्मीधरं तातं सुमनोवृन्दवन्दितम् ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभमुद्धरे ॥३॥ परिभाव्य बहून् ग्रन्थान्योऽर्थः क्लेशेन लभ्यते ॥ तमशेषमनायासादितो गृहीत सजनाः ॥४॥ समर्ण्य लक्ष्मीरमण भक्त्या श्रीशब्दकौस्तुभम् ॥ भट्टोजिभट्टो जनुषः साफल्यं लब्धुमीहते ॥ ५ ॥ प्रेक्षावत्प्रवृत्तये व्याकरणस्य विषयं भगवान् भाष्यकारः प्राद. शयत् "अथ शब्दानुशासनम्" इति । अथशब्दः प्रारम्भस्य द्योत. को न तु वाचकः, निपातत्वात् उपसर्गवत् । न च तेऽपि वाचका एवेति वाच्यम्, 'उपास्यते गुरुः' 'अनुभूयते सुखम्' इत्यादौ धातोः सकर्मकक्रियापरत्वं विना कर्मणि लकारायोगेन वाचकत्वे स्थिते उपसर्गाणां द्योतकत्वस्यैव युक्तत्वात् । ननुक्तयुक्त्याऽस्तूपसर्गाणां द्योतकतानिपातान्तरंतु वाचकमेवेति चेत् ? न, साक्षात्कयते अलंक्रियते ऊरीक्रियते इत्यादौ कर्मणि लकारण कर्मीभूतस्य गुर्वादेरभिधानसिद्धये धात्वर्थ प्रति कर्मत्वस्य वाच्यत्वात् , उपसर्गत्वापेक्षया नि. पातत्वस्याधिकवृत्तितया तदयच्छेदेनैव द्योतकताकल्पनाच्च । सा. मान्ये प्रमाणानां पक्षपातात् । निपातत्वं चाऽखण्डोपाधिरूपं जातिः रूपं शब्दस्वरूपमेव चेति पक्षत्रयेऽपि प्रादिचादिसाधारणमेव । प्र त्वादिप्रत्येकपर्यवसनं तदिति पक्षेऽपि प्रादीनां चादिभ्यो वैलक्ष.