________________
शब्दकौस्तभप्रथमाध्यायप्रथमपादप्रथमाह्निके
आरोपितस्यापि पारमार्थिके उपायता न विरुद्धा । लिपिस्थला. रुन्धतीशाखाचन्द्रादीनां लौकिकदृष्टान्तानामर्थवादवाक्यपञ्चकोशा. वतरणादीनां तन्त्रान्तरसिद्धानां पूर्वत्रासिद्धादीनां चैतच्छास्त्रसिद्धानां प्रागेव दर्शितत्वात् । तदेवं पक्षभेदेन अविद्यैव ब्रह्मैव वा स्फुटत्यर्थो ऽस्मादिति व्युत्पत्त्या स्फोट इति स्थितम् । आह च--
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । इति । समारम्भस्तु भावानामनादि ब्रह्म शाश्वतम् । इति च ।
तदेवं वराटिकान्वेषणाय प्रवृत्तश्चिन्तामणि लब्धवानिति वासिष्ठरा. मायणोक्ताभाणकन्यायेन शब्दविचाराय प्रवृत्तः सन् प्रसङ्गादद्वते औपनिषदे ब्रह्मण्यपि व्युत्पद्यतामित्यभिप्रायेण भगवान्भर्तृहरिविवर्तवादादिकमपि प्रसङ्गाद् व्युदपादयत्, तत्तु तन्त्रान्तरे स्फुटं प्रकृते नातीवोपयुक्तं चेति नेह तन्यते ।
इति स्फोटस्वरूपव्युत्पादनम् ॥ स्यादेतत्, चं लिख चकारस्त्रुटित इत्यादिव्यवहाराल्लिपावव शब्द. भमवतां तत्रैव वाचकत्वाभिमानजुषां बालानां पुस्तकमुपयुज्यते यथा. तथैव भेदग्रहवतामपीति वस्तुस्थितिः। एवमिहापि प्रकृत्यादिविभागे पारमार्थिकत्वाभिमानवतामपि उपयुज्यते एव शास्त्रं तस्किमर्थ कल्पना. व्युत्पादनक्लेशः । अत एव हि भाष्यकारोऽपि शब्दो नित्योऽनित्यो वेति विकल्प्य उभयथापि व्याकरणारम्भस्य निष्प्रत्यूहत्वाद्यथातथास्त्वित्युः दासिष्यतेति चेत् ? सत्यं, व्युत्पत्यर्थ वस्तुस्थितिः कथिता । पक्षभेदेषु हि गौणमुख्येषु व्युत्पादितेषु तत्र परस्परविरुद्धतयाभासमाना अपि सि. द्धान्तग्रन्था व्यवस्थापयितुं शक्यन्ते । स्वार्थद्रव्यादीनां पञ्चानां क्रमेण भानमित्यादिवक्ष्यमाणमपि कल्पनयैवोपपादयितुं शक्ष्यते इति दिक् ।
नन्वस्तु साधुशब्दो विषयः, अस्तु च प्रकृतिप्रत्ययादिकल्पनया तव्युत्पादनोपपत्तिः, तथापि व्याकरणाध्ययनस्यानुष्ठापकं किमिति चेत् ? नित्याध्ययनविधिरिति गृहाण । श्रूयते हि "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो शेयश्च" इति । निष्कारणो दृष्टकारणनिः रपेक्षो नित्य इति यावत् । कार्यतेऽनुष्ठाप्यतेऽनेनेति कारणं फलम् । ब्राह्मणेन षडङ्गो वेदोऽध्येयो शेयश्चेत्यन्वयः । तथाच साङ्गवेदाध्ययः नतदर्थज्ञानरूपोऽयं धर्मो नित्यः सन्ध्योपासनादिवदित्यर्थः। श्रुतिरे. षेति हरदत्तादयः । स्मृतिरिति तु भट्टाचार्याः । तत्र यदि स्मृतिरेवोत प्रामाणिकं तर्हि "आगमः खल्वपि" इति भाष्येप्यागममूलकत्वादागमः