________________
व्याकरणाध्ययनप्रयोजननिरूपणम् ।
स्मृतिरेवेति व्याख्येयम् । अङ्गत्वं चाङ्गत्वेन संस्तवात् । उक्तं हि शिक्षायाम
मुखं व्याकरणं तस्य ज्योतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः पदे ॥
शिक्षा घ्राणं तु वेदस्य हस्तौ कल्पान्प्रचक्षते ॥ इति । उपकारकतयाऽप्यङ्गत्वम् । व्याकरणं हि अर्थविशेषमाश्रित्य स्वरविशेषादीन् विदधत् पदार्थविशेषनिर्णये उपयुज्यते । ज्योतिष. मपि स्वाध्यायोपयोगिनमनुष्ठानोपयोगिनं च कालविशेष प्रतिपादयः ति । निरुक्तं तु व्याकरणस्यैव परिशिष्टप्रायं बाहुलकादिसाध्यानां लोपागमविकारादीनां प्रायशस्तत्र सङ्ग्रहात् । छन्दोविचितिरपि गायव्यादिलक्षणद्वारा गायच्या यजतीत्यादिविध्यर्थनिर्णये उपयुज्यते। शि. क्षापि वर्णोच्चारणप्रकारं दर्शयति । कल्पसूत्राण्यपि प्रकरणान्तरपठि. तस्य न्यायलभ्यस्य शाखान्तराधीतस्य चाङ्गजातस्योपसंहारेण प्रयो. गं दर्शयन्ति । तस्मात्षडङ्गानि । तेष्वपि प्रधानं व्याकरणम्, पदपदा. विगमस्य व्याकरणाधीनत्वात्; वाक्यार्थज्ञानस्य तन्मूलकत्वात् । अत एव तस्य शिक्षायां मुखत्वेन निरूपणं कृतम् । मन्वादिस्मृतिप्वपि अङ्गाध्ययनविधयः प्रसिद्धा एव । तथा चाध्ययनविधियाकरणाध्य. यनस्यानुष्ठापक इति स्थितम् । तथाच सन्ध्योपासनादेरभावे प्रत्यवा. योऽनुष्ठाने च पापक्षय इति यथाभ्युपेयते तथा व्याकरणाध्ययनस्याप्यननुष्ठाने अनुष्ठाने च बोध्यम् । __ रक्षाप्रभृतीनि फलान्तराण्यपि सन्ति । तथा च भाष्यम-"कानि पुनरस्य प्रयोजनानि । रक्षोहागमलध्वसन्देहाः प्रयोजनम्" इति । अत्र प्रयुज्यते प्रवर्त्यतेऽनेनेति करणल्युडन्तः प्रयोजयतीति कर्तृव्युत्पत्त्या बाहुलकात्कर्तृल्युडन्तो वा, उभयथापि प्रवर्तकविधिपरः पुल्लिङ्गः प्रयो. जनशब्द एकः। फलपरः क्लीबोऽपरः। उभयोः "नपुंसकम्" इति नपुंसकैकशेषे एकवद्भावस्य वैकल्पिकतया प्रश्ने बहुवचनमुत्तरे एकवचनं च बोध्यम् । तत्र आगमः प्रवर्तकः, रक्षोहलाघवासन्देहास्तु फलानीति विवेकः । तत्र प्रवर्तक आगमो व्याख्यातः । फलानि व्याख्यायन्ते । ___ तत्र रक्षा वेदसंरक्षणम् । तथाहि, भाषायामदृष्टा लोपागमवर्णवि. काराश्छन्दसि दृश्यन्ते । ते केवलप्रयोगशरणैः प्रामादिकाः सम्भाव्यर. न् । वैयाकरणस्तु लक्षणदर्शीतदेव रूपं स्थापयति ।
तत्र लोपोदाहरणम्-त्मना देवेषु विविदे मितद्रुः । त्मना आत्म.