________________
२२ शब्दकौस्तुभप्रथमाध्यायप्रथम पादप्रथमाह्निकेनेत्यर्थः । “मन्त्रेभ्वाङ्यादेरात्मनः" इत्याकारलोपः ।
आगमो यथा-देवासः, ब्राह्मणासः। "आजसेरसुक्" इत्यसुगागमः। लोपागमौ यथा-देवा अदुह । अदुहतेत्यर्थः । दुहेर्लङो झस्यादादे. शे कृते "लोपस्त आत्मनेपदेषु" इति तलोपः, "बहुलं छन्दसि" इति रुडागमः । एतेन 'नाशिरं द्रुहे' 'विश्वा इत्ते' 'धेनवो दुहे' इत्यादिलड. न्तमपि व्याख्यातम्। __वर्णविकारो यथा-गृभ्णामि ते सौभगत्वाय । "हग्रहो'छन्दसि" "हस्येति वक्तव्यम्" इति भकारः ।
प्रत्ययोऽपि छान्दसोस्ति । यथा-उद्राभं च निग्राभं चेति । "उदि प्रह" इतिसूत्रे "उद्राभनिग्राभौ च च्छन्दसि मुगुद्यमननिपातनयोः" इति वचनादुन्निपूर्वाद्भहेर्घञ् । तत्र उत्पूर्वात्सूत्रण लोकेऽपि सिद्धो घञ् । निपूर्वानु वार्तिकोक्तश्छन्दस्येव । सन्निवेशविशेषयुक्ताः पात्रवि. शेषाः चुचः । इह तु जुहूपभृतोरेव ग्रहणम् "उद्राभं चेति जुहू मुद्यच्छ. ति, निग्राभञ्चेत्युपभृतं नियच्छति" इति वचनात् । भकारादेशःप्राग्वत् ।
अहोऽपि प्रयोजनम् । तथाहि, यत्राङ्गजातं सम्पूर्णमुपदिष्टं सा प्रकृतिः । यथा-दर्शपूर्णमासौ । यत्र नोपदिष्टं सा विकृतिः यथा-"सौ. ये च निर्वपेद् ब्रह्मवर्चसकामः” इति विहितो यागः। अत्र वैकृतस्य विधेविषयभूतायां भावनायां करणीभूते यागे उपकारकाकाङ्क्षायां तन्मखेन प्राकृतमङ्गजातं प्राप्यते । वैदिके करणे तादृशानामेवाङ्गानाम. पक्षितत्वात् । तेषामेव प्रकृतौ क्लप्तसामर्थ्यात् । तद्विशेषस्य चैकदेव. तात्वादिना शक्यज्ञानत्वात् । तस्मात् "प्रकृतिवद्विकृतिः कर्तव्या" इति पर्वमीमांसायां स्थितम् । तत्र यस्याङ्गस्य प्रकृतौ य उपकारः क्लप्तस्त. स्य विकृतावसंभवे निवृत्तिः। यथा प्रकृताववघातस्य वैतुष्यमुपकार. तया क्लप्तं तस्य कृष्णलेष्वसंभवादवघातस्य निवृत्तिः । मन्त्रा अप्यहम् । तेषां चानुष्ठयार्थप्रकाशनं कार्यम् । तत्र प्रकृतौ यस्य मन्त्रस्य यदभिधेयं तद्विकृतौ साकल्येन नास्ति तदा कृत्स्नस्य मन्त्रस्य निवृत्तिः । यथा"अवरक्षो दिवः सपत्नं वध्यासम्" इत्यवघातमन्त्रस्य कृष्णलेषु । यस्य लेकदेशस्याभिधेयं नास्ति तस्य तावन्मात्रं निवर्तते । यथा-"अग्नये त्वा जुष्टं निर्वपामि" इत्यस्य मन्त्रस्यावयवभूतं देवताभिधायि प्रदमौ.. षधद्रव्यकत्वेन एकदेवताकत्वेन चामेयविकारभृते सौर्य निवर्तते अग्नि शब्द च लुप्तद्वारकतया निवर्तमाने एकारोऽपि निवर्तते। अकारान्तेत. प्रकृतिसन्निधानेनैव हि एकारस्य सम्प्रदानं वाच्यम, अकारान्तानु पशब्दस्य । ततश्चतुर्यन्तसूर्यायेत्यायुदात्तममय इत्यस्य मध्योदात.