________________
व्याकरणध्ययनफलनिरूपणम् ।
स्य स्थाने ऊह्यम् । सोऽयं प्रकृत्यूहः ।
लिङ्गस्य कचिदुहः । यथा-"देवीरापः शुद्धाः स्थ" इत्यप्सु विनि. युक्तो मन्त्रः । तस्याज्ये ऊहः देवाज्यशुद्धमसीति।
प्रत्ययमात्रस्य क्वचिदूहः । यथा-"मा भेर्मा संविक्थाः" इति पुरो. डाशेऽवदानमन्त्रः। तस्य धानासूहः-"माभैष्ट मा संविजिध्वम्" इत्या. दिरिति हरदत्तादयः । याशिकास्तु संविग्ध्वमित्यूहमाहुः। युक्तं चैतत्, प्रकृतावनिटकतया "विजिर् पृथग्भावे" इत्यस्य प्रयोगो न तु "ओवि. जी भयचलनयोः" इत्यस्येत्यवधारणात् । __ लाघवमपि प्रयोजनम् । तथाहि, अध्यापनं ब्राह्मणस्य वृत्तिः । तनि. हिश्च वैदुष्याधीनः । वैदुष्यं च साध्वसाधुविवेकः। स च न प्रतिप. पाठादिना सम्भवति, शब्दानामानन्त्यात् । तस्मादुत्सर्गापवादरूपल. क्षणद्वारा तद्वोधने लाघवम् । अन्यथा तु गौरवम् ।
असन्देहोऽपि प्रयोजनम् । तथाहि, “स्थूलपृषतीमनड्वाहामाल. भेत" इति श्रूयते । तत्र सन्देहः-कर्मधारयोऽयं बहुव्रीहिर्वेति । तत्र कर्मधारयपक्षे पृषतीशब्देन मत्वर्थलक्षणया पृषत्वती बिन्दुमती गौरवाभिधीयते, स्थूलापि सैव, बिन्दूनां स्थौल्यं तानवं वा यथा तथाऽस्तु । बहुव्रीही तु स्थौल्यं पृषत्स्वेवेति । गौस्तु स्थूला कृशा वेत्यत्रानादरः । तत्र लकाराकारे उदात्तत्वं दृष्ट्वा पूर्वपदप्रकृतिस्वरेण बहुव्रीहिं वैयाकर. णो निश्चिनोति । ततश्च निश्चयेन प्रतिबन्धात्संशयानुत्पादः । स एवा. सन्देहः । अर्थाभावेऽव्ययीभावादसन्देहमिति स्यादिति चेत् ? न, पर्या. येणाव्ययीभावतत्पुरुषसंज्ञाद्वयमपीह भवतीति द्वितीये उपपादयिष्य. माणत्वात् । अत एवोभयथा मुनिप्रयोगः-अद्भुतायामसंहितमिति, अथासंहितयेति च । एवं “इन्द्रपीतस्योपहूनो भक्षयामि" इत्यादावपि स्वरेणैव बहुव्रीहिनिर्णये इन्द्रपीताधिकरणमवैयाकरणान्प्रति सार्थ. कम् । कृत्वाचिन्तान्यायन वा नेयमिति दिक् ।
तदेवं रक्षोहलाघवासन्देहाख्यानि चत्वारि फलानि व्याख्यातांनि । मागमस्तु प्रवर्तक इत्युक्तम् । भाष्ये तु सन्दर्भशुद्धर्थ फलचतुष्टयस्य प्राक् पश्चाद्वा प्रवर्तके वक्तव्ये मध्ये तदुक्त्या फलसन्दंशेन नित्याना. मपि फलपर्यवसानमस्तीति सूचितम् । फलं तु पापक्षयः प्रत्यवायानुत्पत्तिा , "धर्मेण पापमपनुदति"
विहितस्याननुष्ठानानिन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ इत्यादिवचनानीह साधकानीति विक् ।