________________
४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादद्वितीयानिके
कारो भिन्नक्रमो हेतोरनन्तरं बोध्यः । अर्द्धमात्राऽवर्णस्य, अध्यर्द्धमात्रा वर्णोवर्णयोरितिपक्षे मल्लयामादिवभूयसा व्यपदेशादपि इकारोका. रौ भविष्यत इत्यर्थः । समप्रविभागपक्षोऽप्यस्तीत्यष्टमे वक्ष्यते । तत्र तु पूर्वोकसमाधानद्वयमेव शरणम् । तत्रापि शब्दपरविप्रतिषेधपरं प्रथमव्याख्यानं यद्यपि विवरणे स्थितम् , तथापि तदभ्युपगमे "अप्र. तिपत्तिाभयोः" इत्यादि "विप्रषेधे परम्" (पा००१-४-२) इतिसूत्रे वार्तिकम् भाप्यं च विरुध्येत । नहि "गोस्त्रियोः" (पा००१-२-४८) इतिसूत्रेण गोशब्दे विधीयमानो -हस्वोऽन्यत्र चरितार्थः, येनाप्रतिपः त्तिः स्यात् ।
ननु प्रतिलस्यं लक्षणभेदेन विकल्प प्राप्ते परमेवेति नियमोऽस्त्वि. ति चेत् ? न, एवं हि सति “अचः परस्मिन्" (पासु०१-१५७) इतिसूत्रे
नित्यः परयणादेशः परश्चासौ व्यवस्थया ।
युगपत्सम्भवो नास्ति बहिरङ्गेण सिध्यति ॥ इत्यादिभाष्यसन्दर्भो विरुध्यते । तबलेन हि लक्षणवाक्ययोः पूर्वापरीभाव एव विप्रतिषेधसूत्रस्य विषयो ऽन्यस्तु "अन्तरङ्गम्बलवत्" (प०भा०) इत्यस्येति लभ्यते । इदं च तत्रैव स्फुटीकरिष्यामः ।
द्वितीयव्याख्यानमपि अकारादिवत्प्रातिशाख्योतस्य प्रायेणानादरादुर्बलम् । अथ छन्दोगाभिमतस्यापि चतुर्मात्रस्य तपरकरण. व्यावय॑तोकेस्तद्वदिहाप्यभ्युपगमस्तर्हि ऋलक्सूत्रोकरीत्या "ऋकार. लकारयोः सवर्णविधिः" इतिवार्तिकमपि प्रत्याख्यातुं शक्यम् । अथ शिक्षान्तरानुसारेण वार्तिकारम्भस्तर्हि "एचइग्" (पासू०११-४८) इतिसूत्रारम्भोपि तथैवास्त्विति दिक् ।
तस्माद् “एच इतिसूत्रबलेनाकाराौकारौ न लभ्येत इति स्थि. तम्। ननु प्रातिशाख्योकावपि ताविह गृह्यते चेत्तदा किमनिष्टमाप. घेत? येन तयोरग्रहणं यत्नतः प्रतिपादयसीति चेत् ? न, एचो हुस्व. विधी अन्तरतमत्वेन तयोरेव प्रसङ्गात् । “एच इ" (पासू०११-४८) इति सूत्रं तु प्रत्याख्यातमेव । एतदर्थमेव सूत्राभ्युपगमे तु गौरवमेव दोषः ।
स्यादेतत्, पत् ओत इत्यादिक्रमेण तपरानेव निर्देक्ष्यामः । तथाच ऊकालसूत्रे अच्शब्देन तपराणामेवोपस्थिती सत्यां तत्काल. ग्रहणादर्ध एकार ओकारोघा इस्वसं न लभेत । तेन इस्वविधिः