________________
सन्ध्यक्षरेषु तपरोपदेशखण्डनम् । विधेयोऽप्यसो नेति । मैवम्, त्रिमात्राणामप्यनच्वापत्तेः। ततश्च 'गो ३ प्रातः' इत्यत्र "अनचि च" (पासू०८-४-४८) इत्यचः परस्य विधीयमानं द्वित्वं कारस्य न स्यातू । 'प्रत्यङलैतिकायन:' 'उदङङौ. पगवः' इति ङमुट् न स्यात् । प्लुतसंज्ञाविरहात् प्लुतविधिन प्रवचें। त । न च "ओमभ्यादाने" (पा०सू०८-२-८७) इत्यादिविधिसामर्थ्या. त्तत्सिद्धिः। उवर्णविधानेन चरितार्थत्वापत्तेरिति दिक् । तदेतदाह. वार्तिककार:-"सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम्, प्लुत्यादिव. विधिः । प्लुतसंक्षा च । अतपर एच इग्घ्रस्वादेशे एकादेशे दीर्घग्रह. णम्" इति। अस्यार्थ:-श्लिष्यमाणवर्णद्वयसहशाषयवत्वात्संधीयमान. मक्षरं सन्ध्यक्षरमित्यन्वर्था पूर्वाचार्यसिद्धा एचां संज्ञा । तपर उप. दिश्यतेऽनेनेति करणव्युत्पत्त्या प्रयोजनमुच्यते । तथाच एचां तपरत्वोचारणे फलमस्ति चेतर्हि तपरोच्चारणं तावत्कर्तव्यम् । प्लुतत्वे सत्यप्यविधिविङमुडादिर्न सिद्ध्यति । तत्र प्लुतस्यैव मुडादिः तस्मात्परस्य द्वित्वमिति सूचयितुमादिशब्दः। प्लुते तदुत्तरवणेषु चेष्टं कार्य सिध्यतीत्यर्थः । अभ्युपेत्यवादोऽयम् ।
वस्तुतस्तु अनत्वात्प्लुतसंझैव न सिध्यति । तस्माद्दुष्टस्तपर. निर्देश इति वार्तिकत्रयेणोक्तम् । यथान्यासपाठे स्वाह-अतपर इति । सूत्रं कर्तव्यं स्यादकारादिनिवृत्तये इत्यर्थः। वस्तुतस्तु उभाभ्यामपि वा न कर्त्तव्यमिति समनन्तरमेवोपपादितम्। तस्मानायं दोष उद्भावनाहः पक्षद्वयसाधारण्यात् ।
स्थादेतत्, तपरत्वाभावपक्षे 'गङ्गोदकं' 'रमेशः' इत्यादौ त्रिमात्र चतुर्मात्राणां स्थाने त्रिमात्रचतुर्मात्रा एवादेशाः स्युः, आन्तरतम्यात् । नच "अकः सवर्णे" (पा०स०६-१-१०१) इति सूत्रे दीर्घ इति योगं वि. भज्य "एकः पूर्वपरयोः" (पासू०६-१-८४) इत्यधिकारे यो विहितः स दीर्घा भवतीति व्याख्यानान्न त्रिमात्राद्यादेश इति वाच्यम्, 'पशुं' 'विद्धं' 'पचन्ति' इत्यत्र दोषप्रसङ्गात् । ___ ननु "अमि" इत्येव सूत्रमस्तु । “प्रथमयोः" (पासु०६-१-१०२) इति सूत्रात्पूर्वसवर्णोनुवर्तते "एकः पूर्वपरयोः" (पासू०६-१-८४) इति च । एवं सिद्धे पूर्वग्रहणं यथाजातीयकः पूर्वः स एव यथा स्यात् दी? मा भूदिति । तेन पशुमिति तावत्सिद्धम् । “सम्प्रसारणाच्च" (पा. सू०६-७-१०८) इत्यत्रापि स एव पूर्वशब्दोऽनुवर्तते । “हल" (पासू० ६-४-२) इति सूत्रारम्भसामथ्यावा "संप्रसारणाच्च" (पासू०६१-१०८) इत्यनेन दी? न विधीयते । तेन 'विद्धम्' इत्यपि सिद्धम् ।