________________
२०४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादष्टमालिके
वचनद्वयप्रामाण्याच्च विकल्प इति वाच्यम्, “वा लिटि" (पा०सू०२-४५६) इत्यारम्भात् । न च चक्षिङः ख्याउ आदेशः स्थानीति वचनद्वय. प्रामाण्यात्सर्वत्र विकल्पापत्तौ लिट्येवेति नियमार्थ तत्स्यादिति वा. च्यम्, एवमपि "विभाषा लुङ्लङोः" (पा०स०२-४-५०)इत्याद्यप्राप्तवि. भाषासु वाग्रहणवैफल्यापत्तः । आस्तभूभ्यां रूपद्वयासिद्धौ "अस्ते " (पासू०२-४-५२) इत्यस्य धैयर्थ्यापत्तेश्च ।
अत्राहुः-वत्करणाभावे स्थानी आदेशस्य संज्ञा स्यात् । प्रायेण हा. स्मिन्पादे संज्ञासूत्राण्येवारभ्यन्ते । ततश्च "आङो यमहनः"(पा०सू०१-३२८) इत्यात्मनेपदं वधेरेव स्यानतु हन्तः । नच "स्वं रूपम" (पासू० १-१-६०) इति हन्तेरपि ग्रहणम् , अशब्द संक्षेति निषेधात् । न च स्था. निनः संशात्वे सिद्धं धर्मिणमित्यादिन्यायबाधः, अनेकशक्तेः शन्दस्य शक्त्यवच्छेदेन संक्षिनि विनियोग इति पक्षे संज्ञाया एवोदेश्यकोटिनि. वेशात् । न चैवम् "आङो वधियमः" इत्येव ब्रूयादिति वाच्यम् , "वध हिंसायाम्" इति भौवादिकस्यापि ग्रहणापत्तेः । न चैवम् "आङो वधयमः" इति पठ्यताम्, अकारस्य विवक्षितत्वाचन भौवा. दिकेऽतिप्रसङ्ग इति वाच्यम, सकलहन्त्यादेशसंग्रहार्थम् "आलो यमः हनः" (पासू०१-३-२८) इत्यस्यैव वाच्यत्वात् । तथा चावधिष्टवद् 'आजम्ने' इत्यत्राप्यात्मनेपदं सिद्धम् । तथाहि, हन्तोर्लिटि लसामान्या. पेक्षत्वादन्तरङ्गत्वात्तिबादिषु कृतेषु परत्वनित्यत्वाभ्यां "शेषात्कर्तरि" (प्रा०सु०१-३-७८) इति बाधित्वा "लिटि धातोः” (पा.सु०६-१-८) इति दिःप्रयोगे ऽभ्यासस्य चुत्वेऽभ्यासात्परस्य घत्वे एकदेविकारा. सम्भवेन समुदायस्य समुदायादेशत्वाद्धन्त्यादेशत्वं, ततो वधिना सह तुल्ययोगक्षेमतैवेति दिक् । अस्तु वा स्थानिन आदेशः संज्ञा, तथाप्य. निष्टं तुल्यमेव । तथाहि, “अस्यतिवक्ति"(पा०सु०३-१-५२) इत्यत्र रा. तिपदेन चक्षिव गृह्यते, कृत्रिमत्वात् । तथाच 'समचक्षिष्ट'इत्यत्राऽङ् स्यात् 'आख्यत' इत्यत्र च न स्यात् । न चैवं "वक्षिः " इत्येव ब्रयात, अनुबन्धनिर्देशेनापि यङ्लुग्वारणसम्भवादिति वाच्यम्, एवमपि गा. अकुटादिसूत्रे गाङा इङ्गाङोर्ग्रहणापत्तेः । इङित्यवचनसामाद यम यगतिः स्यात्। “गमेरिट परस्मैपदेषु"(पा०स०७-२-५८) इत्यत्र विणि. डिकामेव ग्रहणं स्यात् । तस्मात्कर्त्तव्यमेव वत्करणम् । नन्वेवं पत्कर णाभावाधीनलाघवानुरोधात्संशाप्रकरणादन्यत्रैव स्थानिवद्भावप्रकरणं क्रियतामिति चेत् ? न, तथा सत्यादशग्रहणं विना वाक्यानिर्वाद बहुगौरवापत्तेः । सिद्धान्ते त्वादेशग्रहणमतिरिच्यमानमानुमानिकप्र.