________________
विधिशेषप्रकरणे अतिदेशसूत्रम् ।
२०५
हार्थं भवतीति तद्वलेन "एकदेशविकृतस्योपसंख्यानम्” इतिवार्तिकं प्रत्याख्यास्यते । अपिच "काममतिदिश्यतां वा" (भा०इ० ) इति वक्ष्यमाणमपि वत्करणायत्तमिति दिक् ।
स्यादेतत्, यदि संज्ञाप्रकरणे वत्करणं विना अतिदेशालाभस्तर्हि कित् ङित् इत्यादौ का गतिरिति चेत् ? उच्यते, किदिति न संज्ञा "न क्वा सेट् ” ( पा०सू०१-२-१८) इति ज्ञापकात् । यहि क्त्वः कित्संज्ञा प्राप्ता या निषिध्येत । ननु" मृडमृद" (पा०२-२-७) इति प्राप्ता सा निषिध्यताम्, वचनद्वयसार्थक्याय च विकल्पोऽस्त्विति चेत् ? न, "मृडमृद" (प०. सू०१-२-७)इत्यत्रैव वाग्रहणस्य सम्भवात् । किञ्चैवं "निष्ठाशी" (पा० सू०१-२-१९) इत्यादि व्यर्थे स्यात् । न हि शीङादिभ्यो निष्ठायाः केन. चित्संज्ञा प्राप्ता । एवं ङिदित्यतिदेशः, कित्साहचर्यात् । किञ्च ङिदि. त्यस्य संज्ञात्वे प्रहिज्यादिसूत्रे ऽस्यैव ग्रहणं स्यात्, कृत्रिमत्वात् । तथाच'न वशः' (पा०सू०६ - १ - - २०) इति सूत्रं व्यर्थ स्यात्, 'वावश्यते' इत्यत्र संप्रसारणाप्राप्तेः । किञ्च "ङ्किति च" ( पा०सू०१ - १ - ५ ) इत्यत्रास्वाग्रहणं स्यात्, संज्ञास्वरूपानुच्चारणात् । तथाच “गाङ्कुटादि" (पा०सू०१-२-१) इत्यत्र कुटादिग्रहणं व्यर्थे स्थात् । "बहुगण" (पा०. सू०१-१-२३) इत्यत्र तु संख्येत्यतिदेशः । अन्यथा टिघुभादिवदेकाक्षराया एव संज्ञायाः कर्त्तव्यतापत्तेः । " किकिनौ लिट्च" (पा०सू०ए०३२- १७१) इत्यादि तु न संज्ञाप्रकरणं, तेन लिवदित्यतिदेशो निर्बाध इति दिक् ।
अथादेशग्रहणं किमर्थम् ? स्थानिवदित्येतावत्तैव सम्बन्धिशब्दमहिम्ना तल्लाभात् । यथा 'पितृवदधीते' इत्युक्ते पुत्र इति गम्यते इति चेत् सत्यम्, द्विविध आदेश :- "अस्तेर्भूः” (पा०सू०२-४-५२) इत्यादिः प्रत्यक्षः, "तेस्तुः" इत्यादिस्त्वानुमानिकः । अत्र हीकारणेकारान्तः स्थान्यनुमीयते, उकारेण चोकारान्त आदेशः । तथाच" तेस्तुः" इति फ लितार्थः। तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य । आदेशग्रहणसामर्थ्यात्तूभयपरिग्रहः । तेन 'पचतु' इत्यादेस्तिङन्तत्वात्पदसंज्ञा सिद्धयति । ननु " एरुः " (पा०सू०३-४-८६ ) इत्यादि यथाश्रुतमस्तु, एकदेशविकृतस्यानन्यत्वाच्च पदत्वं भविष्यतीति चेत् १ न, अर्थवत्येव स्थान्यादश भाव विश्रान्तेर्वाच्यत्वात्तस्यैव प्रसङ्गसम्भवात् । तथाहि, “षष्ठी स्थानेयोगा" (पा०सू०१-१-४९) इत्युक्तम् । स्थानं च प्रसङ्गः । स चार्थवतः, अर्थप्रत्यायनार्थे शब्दप्रयोगात । यद्यपि चले। सिजादावसम्भवदिम्, तथापि सति सम्भवे ऽर्थ प्रयुक्तप्रसङ्ग एव ग्राह्य