________________
२०६
शब्द कौस्तुभ प्रथमाध्याय प्रथमपाद अष्टमाह्निके
इत्यादेशग्रहणेनैव ज्ञाप्यते । उक्तञ्च
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ पदमिहार्थवत् पद्यतेऽनेनेति व्युत्पत्तेः । यद्यपि सर्वविकारे सुत. रां नित्यत्वानुपपत्तिः, तथापीह विकार एव नास्तीति तात्पर्यम् । तथाच वार्तिकम् - "कार्यविपरिणामाद्व।" इति । कार्यमिह ज्ञानं योग्यताबलात् । तथाच ज्ञाननिष्ठमुत्पादविनाशादिकं विषये आरोप्यते इति भावः । नन्वेवं बुद्धिविपरिणाममात्रस्य स्थान्या देशभावत्वेऽपवादेऽयुत्सर्ग कृतं स्यात् । तथाहि, कप्रत्ययान्तादप्यण्णन्तत्वप्रयुक्तो ङीप् स्यात् । अत्राह वार्त्तिककारः- "सिद्धन्तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् " इति । " षष्ठी स्थानेयोगा" ( पा०सू०१ - १ - ४९) इत्यनुवृत्तेरिति भावः । न चापवादः षष्ठीनिर्दिष्टस्य स्थाने विधीयते । "नाभि नभञ्च" (का०वा० ) इत्या• दौ तु षष्ठयाः स्थाने प्रथमा बोध्या । विश्रवणरवणेत्यादीनि तु शब्दान्तराणि प्रत्ययविषयाणि बोध्यानि । विश्रवः शब्दात प्रत्ययो न भवति अनभिधानादिति भावः । तथाच "विदूर(ञ्यः” (पा०सू०४-३-८४) इति सूत्रे भाष्यम् --
"
बालवयो विदुरं च प्रकृत्यन्तरमेव वा ।
न वै तत्रेति च ब्रूयाज्जित्वरीवदुपाचरेत् ॥ इति ॥ अस्मिन्पक्षे षष्ठीनिर्दिष्टस्य स्थाने आदेशा विधीयन्ते इति वृद्धिस् त्रस्थं भाष्यं यथाश्रुतमेवेति निर्बाधम् । यत्तु स्थाम्यर्थाभिधानसमर्थस्यैवादेशतेत्येवंपरतया कैयटेन भङ्क्त्वा व्याख्यातम्, तदत्रत्यपक्षा न्तराभिप्रायेणेत्यवधेयम् । अथ वा इयनः शित्करणं शापकम् - अपवादे उत्सर्गकृतं नेति । न च पित्वनिवृत्त्यर्थे तदिति वाच्यम्, नित्त्वादेव तसिद्धेः । नित्वं ह्याद्युदाचार्थम् । इयनः पित्वे तु पित्वादनुदात्तत्वे ल. सार्वधातुकानुदात्तत्वे च धातुस्वरेणैव सिद्धौ किं निश्वेन ? न चानेका क्षु विशेषः दिवादौ तदभावात्। "वावृतु वर्त्तने " ( दि०) इत्यस्तीति चेत् ? न, वाशब्दस्य विकल्पार्थखात् । न च स्वादिपाठेन सिद्धेस्तद्वैयर्थ्यम् स्वादिपाठस्य "वृद्भयः स्यसनो: " ( पा०सू०१-३-२२ ) इत्याद्यन्तर्गणकार्ये उपक्षीणत्वात् । नन्वेवं-
"
ततो वावृत्यमाना सा रामशालां न्यवीक्षत | (भ०का० )
2
इति भट्टिप्रयोगानुपपतिरिति चेत् ? न तत्र वाशब्दस्येवार्थतया कामयमानेव न तु तथा । किन्तु छलनार्थमागतेत्यर्थात् । अत्र कैयटः । ताच्छील्यादिविषये चानाश इयमो नित्वं प्रकृतेरायुदात्तार्थे स्यादिति ।