________________
विधिशेषप्रकरणे अतिदेशसूत्रम् ।
सत्र हि लसार्वधातुकाभावादनुदाचाप्राप्त्या"चितः"(पा०स०६-१-१६३) इत्यन्तोदात्तत्वमेव प्राप्तमिष्टं च । तत्रानिष्टार्थमेव नित्त्वं किन्न स्यादिति तस्याशयः । न त्वेतद् युक्तम् “अन्यत्र विकरणेभ्यः" इति पर्युदासाच्छ्य. स्वरस्य दुर्बलत्वात् । न च नित्वसामात्तद्वाधः,लसार्वधातुके चरि. तार्थत्वात् । तत्र स्थानिवद्भावलब्धन पित्त्वेन गतार्थतेति चेत् ? न, इह निस्वेनातिदेशपर्युदासयोरन्यतरस्मिन्नवश्यबाध्येऽतिदेशबाघस्यैव न्या. य्यत्वात् , “पूर्वान बाधन्ते नोत्तरान्" (प.भा०ए० ६१) इति न्याया. च्च । यत्तु कैश्चिच्चानशन्तस्यायुदात्तत्वमिष्टमित्येवंपरतया केयटन. न्थं व्याख्याय "विकरणेभ्योऽन्यत्र" इति पर्युदासस्तु यत्र विकरणः स्वरभाक् तद्विषयः, इह तु विकरणो न स्वरभाक् "सौवर्यः सप्तम्यस्तदन्तसप्तम्यः" इति सिद्धान्तादित्युक्तम् । तदेतनिर्मूलम् , घुसंज्ञासूत्रशेषस्थेन खरसूत्रस्थेन च भाग्येण विरुद्धं चेत्युपेक्ष्यम् । किश्च "आतोऽनुपसर्गे कः' (पासू०३-२-३) इति कापवादस्य "गापोष्टक" (पासू०३-२-८) इति टकः किरकरणं ज्ञापकमनापवादे उत्सर्गकृतं भवतीति ।
अनल्विधाविति किम् ? तेन तस्मात्तस्य तस्मिश्च विधौ मा भूत । तत्राला विधौ यथा व्यूढोरस्केन । अत्र "सोपदादो" (पासू०८-३-३८) इति विसर्जनीयस्य स्थान विहितस्य सकारस्य स्थानिवत्वाद्विसर्जनी. यस्य अटसुपदेशाद् "अड्व्यवाये" इति णत्वं "प., । अलः परस्य विधौ यथा--द्यौः। पन्थाः। सः। अत्र हल्ङयादिलोपो न भवति। अलो विधौ यथा--"दिव उत्" ( पा०सू०६-१-३१) युकामः । "लोपोव्योर्वलि' (पासू०६-१-६६) इति लोपो न भवति । उत्वविधानं तु 'अहर्विमलद्यु' इत्यादौ चरितार्थम । अलि विधौ यथा--यजेः कः इष्टः । क इष्ट इत्यत्र सम्प्रसारणस्य स्थानिवत्वात् 'कोयष्टा' इत्यादाविव "हशि च'' (पासू०६-१-११४) इत्युत्वं न भवति। 'स इष्टः' इत्यत्र एतत्तदोः सुलोपो न भवति । अनल इत्युक्तपि सम्बन्धसामान्य षष्ठया प्रागुकानेकविभक्त्यर्थसहो यद्यपि सम्भवति, तथापि विधिशब्दोपादानमप्राधान्येनाप्यल आश्रयणे निषे. धार्थम् । तेन 'प्रपठ्य' इत्यादि सिद्धम् । अत्र हि वलादेरित्यप्राधान्येनालाश्रितः न तु प्राधान्येन ।
स्यादेतत् । स्थान्यनुबन्धकार्याण्यपि तर्हि निषिध्येरन् । तथाच प्र. दीव्य' इत्यत्र स्थानिवद्भावेन कित्त्वं न लभ्येतति चेत् ? न,"अनेकान्ता अनबन्धाः' (पा०सू०४ ) इति पक्षे अनुबन्धानां स्थान्यत्त्वाभावात ।