________________
विधिशेषप्रकरणे अतिदेशसूत्रम् ।
२०३
वृत्तिः । सुप्त्वञ्चेह यद्यपि ए इत्यस्मिन्नलि वर्त्तते तथापि न तदलोSसाधारणम्, भ्यामादौ समुदाये विश्रान्तेः । इदं च कार्यकालपक्षा: श्रयेणोक्तम् । यथोद्देशपक्षे तु सुप्सञ्ज्ञाया अपि शास्त्रीयत्वात्सैवाति-" दिश्यते । तत उपदेशेनैव दीर्घ इति न किञ्चित्कष्टम् । एतेन 'अरुदि ताम्' 'अरुदितम्' इत्यादाविडागमोऽपि व्याख्यातः । तत्रापि सार्वधातु कसञ्ज्ञातिदेशसम्भवादिति दिक् ।
C
।
अत्र धारखङ्गकृत्तद्धिताव्यय सुप्तिङ्पदादेशाः प्रयोजनमिति वृति कृतः । उदाहरणदिक चेयम्, न तु परिगणनमिति भ्रमितव्यम् "चले। सिच्” (पा०सु०३-१-४४ ) इत्यादीनामसङ्ग्रहापत्तेः । क्रमेणोदाहरणानि -- "अस्तेर्भूः " (पा०सू०२ - ४ - ५२ ) आर्द्धधातुके विवक्षिते । अत एवाङ्गा त्पृथक् धातूपादानम् । धातुत्वाद्धातुप्रत्ययाः -- भव्यम् । केन, काभ्यां, कैः । अङ्गत्वादिनादेश दीधैस्भावाः । कृत् -- प्रकृत्य, कृत्वा । "हस्वस्य पिति कृति" (पा०सु०६-१-७१ ) इति तुक् । अद्यतनम् तद्धितत्वात्तदन्तः स्वप्रयुक्ता प्रातिपदिकसञ्ज्ञा । 'कदश्वः' स्थानिवद्भावेनाव्ययस्वादव्य• पूर्वपदप्रकृतिस्वर इत्याहुः । तच्चिन्त्यम्, स्थानेन्तरतमपरिभाषया गतार्थत्वात् । 'अधोऽधः' इत्ति तूदाहरणमाष्टमिक द्वित्वस्य स्थानेद्विर्वचनरूपत्वात्सम्भाव्यते, किन्तु तत्रापि फलं दुर्वचम् । तस्माद् 'म' थोऽधः कामः' इत्युदाहार्यम् । “अतः कृकमि (पा०सु०८-३-४६ ) इति प्राप्तस्य सत्वस्यान्ययत्वात्पर्युदासः । यत्तु वृत्तौ 'प्रस्तुत्य' इत्यव्ययादेशोदाहरणम् । तच्चिन्त्यम्, क्त्वामात्रस्थानव्ययत्वात् । तदन्तविधेः सर्वैकवाक्यतया सिद्धान्तितत्वात् । न च जहत्स्वार्थायां वृत्तौ क्त्व अनर्थक्यात्सर्वे सर्वपदादेशा इत्यभिप्रायेणेदमिति वाच्यम्, “हस्वस्य पिति कृति” (पा०सु०६-१-७१) इति तुगभावापत्तेरिति दिक् । सुप्रामाय । तिङ् -- अपचताम्, तिङन्तत्वात्पदत्वम् । वः, नः, पदत्वास्वादि । नन्वेवम् 'अधोऽधः' इत्यस्यापि पदादेशत्वादेव गतार्थतेति चेत् ? सत्यम्, गोबलीवर्दन्यायेनाव्ययग्रहणादिति दिक् । इह 'काभ्याम्' इत्यादावादेशः कार्ये लभते 'केन' 'कैः' इत्यादौ तु परस्य प्रवर्तयतीति विवेकः ।
मनु वत्करणं मास्तु, स्थाम्यादेश इत्येतावताऽपि "असंयोगालिद किट्” (पा०सु०१-२-५) इत्यादाविव वत्यर्थलाभात् । यदाहुः - " परत्र परशब्दः प्रयुज्यमानों विनापि वति वत्यर्थे गमयति" इति । न च स्थानी आदेशं प्रतिपद्यते इत्येव वाक्यार्थः किं न स्यादिति वाच्यम्, तत्तदादेशविधायकैरेव गतार्थत्वात् । न चादेशः स्थानिरूपमापद्यते,