________________
२०२
शब्दकौस्तुभप्रथमाध्यायप्रथमपादअष्टमालिके
कम् । ध्वसोरित्यत्र तु लोप इत्येष छेदः । “लोपो यि" (पासू०६-४११८) इति प्रहत्ते पुनर्लोपग्रहणसामर्थ्यास्सर्वादेशः । वार्तिकमते तु "मा. नर्यके लोन्त्यविधिः" (प०भा०१०५) इत्येव सिद्धम् । न चामभ्यासधि. कारेग्विति पर्युदासस्यायं विषयः, लोपस्य विकारस्वाभावात् । रूपा. तरापत्तिर्हि विकारः । यथा "भृशामित्" (पा०सू०७-४-७६) "आर्त पिपयो" (पा०सु०७-४-७७) इत्यादिः । अत एव पस्पशायां लोपो विकारात्पृथगुपात्तः "लोपागमवर्णविकारझो हि वेदं परिपालयिष्यति" इति । उक्तं च "पृषोदरादीनि" (पा०स०६-३-१०९) इति सूत्रे कैयटेन"द्वौ वापरौ वर्णविकारनाशौ" इति । वस्तुतस्तूपदेशावस्थायामेवान्त. रातयेत्संक्षा। अत एवोच्चरितप्रध्वंसिनोनुबन्धाः स्मर्यमाणाः सन्त एव कार्य निर्वाहयन्तीति सिद्धान्तः । इदं चोत्तरः एव कैयटे स्फु. 'टम् । तथाच "दिव उत्' (पासू०६-१-१३१) "अर्वणस्तृ" (पा०सु०६४-१२७) इत्यादेरेकाल्वादेकान्तपक्षेऽपि न सर्वादेशता प्रसज्यते । एवञ्च "नानुबन्धकृतमनेकालत्वम्" (प०भा०६) इति ज्ञापनं व्यर्थम् । शिग्रहणं च सुतराम् । "इदम इश्' (पासू०५-३-३) "इदं किमोरी. श्को" (पा०सु०६-३-९०) इतीशाशोस्तु शकारोवारणसामात्सर्वा. देशतायाः प्राव नलोपः । यत्नु कृतेऽपि सर्वादेशे प्रयोजनाभावाच्छका. रस्येत्संज्ञा न स्यादिति हरदत्तेनोक्तम् । तन्न, लोपस्यैव प्रयोजनत्वात् । न चैवमुच्चारणवयर्थ्य, सर्वादेशस्वसम्पादनेन कृतार्थत्वादिति दिक् । तस्मादिह सूत्रभाज्यकृतोरभिप्रायश्चिन्त्यः । इह नानेकाल्शिदिति पठि. स्वा अन्त्यस्यादेरिति चानुवांनुसंहारद्वयनिषधे सर्वस्येति शक्य. मकर्तुम् ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे सप्तममान्हिकम ॥
स्थानिवदादेशोऽनल्विधौ (पा०स०१-१-५६) । आदेशः स्थानि. वत्कार्यं लभते प्रवर्तयति च । तृतीयान्ताद्वतिना स्थानिना तुल्यं वर्तते इति वाक्यार्थलाभात् । यदूपवैकल्यादुपदेशाप्रवृत्ती सन्यामतिदेशो मृग्यते तच्चेद्रपं स्थान्यलोऽसाधारणं न भवेत । आवधिषीष्ट । अत्र हन्तर्विधीयमानमात्मनेपदमतिदेशाद्वधेरपि भवति । "आङो यमहनः" (पासू०१-३-२८) इत्यत्र हि अल्नाश्रीयते । 'रामाय' इत्यादौ "सुपि. च' (पासू०७-३-१०२) इति दीर्घे कर्तव्ये यद्यपि यत्रादौ इत्यलाश्री. यते तथापि न तत्र तद्विरहप्रयुक्का "सुपिच" (पासू०७-३-१०२) इत्यस्याप्रवृत्तिः, यादेशस्य यत्रादित्वात् । सुप्त्ववैकल्यानूपदेशस्याप्र.