________________
विधिशेषप्रकरणे सर्वादेशनियामकसूत्रम् ।
२०१
ङिश्च (पा०सु०१-१-५३) । ङिदने कालप्यन्त्यस्य स्यात् । दध्ना । दध्ने | अनन्यार्थङित्त्वध्वनङादिषु चरितार्थमिदं तातङि परेण "अनेकाल्शित्सर्वस्य" ( पा०स०१-१-५५) इत्यनेन बाध्यते । ननूत्सर्गापवा-दयेोरयुक्तो विप्रतिषेध इति चेत् ? सत्यम्, सर्वादेशेऽपि तातङि गुणवृद्धिप्रतिषेधरूपं प्रयोजनं सम्भाव्यते । तावता च किञ्चिद्विलम्बन प्रवृत्तोऽयमपवादोऽप्यस्मिन्विषये उत्सर्गेण समकक्षतामापन्न इति 'युक्तो विप्रतिषेधः । यद्वा, " एरुः " (पा०सू०३-४-८६ ) इत्यस्यानन्तरं 'तिह्योस्तात्' इति वक्तव्ये ङित्करणं गुणवृद्धिप्रतिषेधार्थमेवेति विप्र तिषेधोपपत्तिः । अस्तु वा विनाऽपि विप्रतिषेधं सर्वादेशः प्रदर्शितस्य गुणवृद्धिप्रतिषेधार्थत्वस्य सर्वादेशतामन्तरेणानुपपत्तेः ॥
आदेः परस्य (पा०सू०१-१-५४) । परस्य यद्विधीयते तदादरलो बोध्यम् । "ईदास:" ( पा०सू०७-२-८३) । अत्र "तस्मादित्युत्तरस्य " (पा०सु०१-१-६७) इत्युपतिष्ठते । तेनादेरीकारः, आसीनः ॥
अनेका शित्सर्वस्य (पा०सू०१-१-५५) । अनेकाल आदेशः शिच सर्वस्य स्यात् । "अस्तेर्भूः" (पा०सु०२-४-५२) भविता । " इदम इशू " - (पा०सु०५ - ३-३) इतः । "ङिच्च" (पा०सू०१-१-५३) इति नियमा• त्सिद्धेऽनेकाल्ग्रहणमपवादविप्रतिषेधार्थमित्युक्तम् । यत्तु वृत्तिकारैः "जशसोः शिः " (पा०सू०७-१-२०) इति शित उदाहरणं दत्तम् । तश्च्चिन्त्यम्, सर्वदेशतां विना तत्र शित्वस्यैवालाभाव । सर्वादेशतायाश्वानुपूर्व्यादने काल्ल्वेनैव णल्डादेशादिष्विव सिद्धत्वात् । तथाहि, णल्डाशिप्रभृतयो यदा सर्वादेशास्तदा प्रत्ययसंज्ञाः । ततः प्रत्ययादित्वप्रयुक्ता इत्संज्ञा । ततो लोपः । तत एकाल्त्वे सत्यपि न सर्वादेशत्वक्षतिः उपजीव्यविरोधापत्तेः । अत एव हि 'कर्ता' इत्यादौ न सर्वदेश तेत्युक्तम् । शकारेणानुबन्धेन इश्प्रभृतीनामनेकाल्त्वादेव सिद्धे शिद्ध. हणं "नानुबन्धकृतमनेकाल्ल्वम्" (१०मा०६) इति ज्ञापनार्थम् । तेन “दिव उत्" (पा०सू०६ - १ - १३१) “ अर्वणस्त्रसौ" (पा०सू०६-४- १२७) इत्यादेर्न सर्वदेशतेति बोध्यम् । ननु कथं ज्ञापकता "ध्वसोरेद्धावभ्यासलोपश्च" (पा०सु०६-४-११९) इत्येतदर्थतया शिग्रहणस्य चरितार्थ - त्वात् । तत्र हि लोपश् इति छिद्यते संज्ञायां च कृतं शिवं तत्रानुप• युक्तं सत्संशिनि फलति, ङमुटष्टित्त्ववदिति सिद्धान्त इति चेत् ? सत्यम् ' "अनेकान्ता अनुबन्धाः " ( प०भा०४) इति पक्षे "नानुबन्धकृत मनेकालवम्" (प०भा०६ ) इत्यस्य प्रयोजनाभावात्तदभिप्रायको लोपशिति“च्छेद -इति सिद्धान्तः । एकान्ता इति पक्षे तुकररीत्या ज्ञापकमावश्य
▼