________________
२००
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिके
अलोऽन्त्यस्य (पा०स०१-१-५२)। स्थानषष्ठीनिर्दिष्टस्य यदुच्यते तत्तदन्त्यस्यालः स्थाने बोध्यम् । "त्यदादीनामः'-(पा०म०७-२-१०२) सः, यः । स्थानषष्ठीति किम् ? आद्धधातुकस्येट् तृच ऋकारात्पूर्वो मा भूत । इदं च षष्ठी स्थानेयोगा" (पा०सू०१-१-४९) इति सूत्रस्यानु वृत्तेर्लभ्यते । अल इति किम् ? "पदस्य" (पा०स०८-१-१६) इत्यधि. कृत्य विधीयमानं "वसुस्रंसु" (पा०सू०८-२-७२) इति दत्वं 'परमान हुद्भयाम्' इत्यदावन्त्यस्य पदस्य मा भूत् । एतेनाल इति जसन्तमा. श्रित्यालात्मका आदेशा अन्त्यस्य स्युरिति व्याचक्षाणाः परास्ताः, अन्त्यस्य पदस्थापि प्रसङ्गात् । किश्चैवं लाघवार्थमलन्त्यस्येत्येव सूत्र. येत् । अपि च 'अरुमनश्चक्षुश्चतोरहोरजसा लोपः" (पासू०५-४-५१) "पादशतस्य संख्यादेः'' (पा०सू०५-४-१) इति लोपो ढकि लोपश्च सर्वादेशः स्यात् । ततश्च 'विरजीकरोति' इत्यादि न सिध्येत् । यत्तु अल इति जसन्तमिति पक्षे "अनेकालिशत्सर्वस्य" (०सू०१-१-५२) इति सत्रे अनेकालग्रहणं न कर्त्तव्यमिति लाघवोपवर्णनं, तदपि न, षष्ठीति पक्षेऽपि "ङिच्च" इत्यत्र ङिदेवानेकाल अन्त्यस्य स्यात्, न तु आङदपी. ति नियमाश्रयणेनानेकाल्ग्रहणप्रत्याख्यानसम्भवात् । वस्तुतस्तु पक्षद्वयेऽप्यनेकाल्ग्रहणं कर्त्तव्यमेव । अन्यथा "अतो भिस ऐस (पा० सू०७-१-९) इत्यादिपञ्चमीनिर्देशंवनेकालप्यादेशः परस्यादेः स्यात् । सत्यमेकालग्रहणे परत्वात्सर्वादेशः । अत एव "तस्मादित्युत्तरस्यादेः' इति न सूषितम् । तथाहि, "अलोऽन्त्यस्य" (पा०स०१-१-५२) इत्यस्य द्वावपवादो-"आदेः परस्य" (पा०म०१-१-५४) "अनेकालाशत्सर्वस्य' (पा०सू०१-१-५५) इति । तत्र प्रथमस्यावकाश:-"ईदासः' (पासू०७२-८३) "बहोर्लोपः” (पा०सू०६-४-१५८) इति । आसीनः 'भूयान्। द्वितीय स्यावकाशः-"अस्तेर्भूः" (पा०म०२-४-५२) इत्यादि । “अतो भिस" (पा०सू०७-१-९) इत्यादेः परत्वात्सर्वादेशत्व सिद्धं 'रामैः' इत्यादि । न च "आदेः परस्य' (पा०स०१-१-५४) इत्यत्राल इति जस. न्तमनुवयं 'रामैः' इत्यादि साधनीयमिति वाच्यम् , तथा सति भूयान्' 'भूमी' इत्याद्यसिद्ध्यापत्तेः । तदेवं कार्यस्यान्त्यल्यनुसंहारो व्याख्यातः "ङिच" (पा०स०१-१-५३) इत्याद्यग्रिमसन्दर्भानुगुणत्वात् । यद्वा, षष्ठ्या एवायमनुसंहारः । या स्थानयोगा षष्ठी साऽन्त्यस्यालो बोध्योते । अत्र पक्षे ङिच्च" (पा०म०१-१-५३) ३ प्रस्थायमर्थःयत्र ङिदादेशो विधीयते तत्र या षष्ठी सा अन्त्यस्याल इति । एवम ग्रेऽपि ।