________________
विधिशेषप्रकरणे रपरादेशनियामकसूत्रम्। १९९ स्यादेतत् । उक्तरीत्या "ऋत उत्" (पा०सू०६-१-११) इत्युकारादे. शस्यापि रपरत्वं स्यात् । तथा च विभक्तिसकारस्य रुत्वे कृते पूर्वस्य "रोरि" (पा०प्नु०८-३-१४) इति लोपे "ठूलोपे” (पा०स०६-३-१११) इति दीर्घेण मातूः पितूरिति प्राप्नोतीति चेत् ? मैवम्, रुत्वस्यासिद्ध. त्वेन "रात्सस्य' (पा०पू०८-२-२४) इति सकारलोपे रेफस्य विसर्गेण रूपसिद्धेः । नन्वेवं 'मातुःकार्यम्' इत्यत्र षत्वं स्यात् । "इदुदुपधस्य. चीप्रत्ययस्य" (पा०सू०८-३-४१) इति सूत्रात् । न चायं प्रत्ययविसर्जनी. य एवेति वाच्यम्, अकारस्य प्रत्ययावयवत्वेऽप्यप्रत्ययतया तदादेशस्य सुतरामतथात्वादिति चेत् ? उच्यते, "ऋत उत्” (पासू०६-१-१११). इत्येकादेशस्य परादिग्रहणेन प्रहणादस्ति तावत्सान्तस्य प्रत्ययसक्षा' सकारे लुप्ते त्ववशिष्टस्यैव प्रत्ययसमा एकदेशविकृतस्योपसंख्या. नात् स्थानिवदादेश इत्यत्रादेशग्रहणाद्वा । अत एव यङो यकारे लुते अकारस्य प्रत्ययसञ्झेत्युक्तम् । तथाचाप्रत्ययस्येति षत्वनिषेधः सि. खः । न चैवं प्रत्ययावयवस्थानिकत्वेऽपि प्रत्ययस्थानिकत्वाभावात षत्वं स्यादेवेति वाच्यम्, अप्रत्ययस्येत्यनुवादे परिभाषानुपस्थानेन स्थानयोगस्य दुर्लभत्वात् । अवयवावयविभावस्य षष्ठ्यर्थत्वसम्भवात् । नन्वप्रत्ययस्थेति पर्युदासः तथाच पूर्वान्तत्वेनैकादेशग्रहणा. षत्वं स्यादेव । किञ्च प्रसज्यप्रतिषेधपक्षेऽपि सम्भवति सामानाधि. करण्ये वैयधिकरण्यस्यान्याय्यत्वात् अप्रत्ययो यो विसर्गस्तस्य षत्वं स्यादिति वाक्यार्थः । तथा च 'अग्निः करोति' इत्यादौ स्थानिवद्भा. वेन विसय प्रत्ययत्वान्मा भूत् षत्वम् । 'मातुःकार्यम्' इत्यादौ तु स्यादेवेधिवत् ? इहेदं तत्त्वम्-कस्कादिषु भ्रातुप्पुत्रशब्दस्य पाठो सापक एकादेशशास्त्रेण निर्वृत्तात्परस्य षत्वं न स्यादिति । यद्वा, प्रस. ज्यप्रतिषधवैयधिकरण्यान्वयावेव बाप्यते । यत्तु भाष्यं “लुप्यते प्रत्ययो रात्सस्य" इति । यच्च कैयटकृतं तद्याख्यानम्-"उत्वे कृते. ऽवशिष्टः सकार एव प्रत्ययसञः स च लुप्तः" इति । तदुभयमपि चिन्त्यम, इह "सिद्धं तु प्रसङ्गे रपरत्वात्" इति पक्षे यद्यप्यरारादिरू. पेण विधानादभकत्वादिशव नास्ति तथापि सम्प्रयोगो वेति पूर्व. सूत्रोक्तरीत्या तृतीयपक्षमाश्रित्य भाष्ये पक्षत्रयं चिन्तितम् । तत्रामा तत्वपक्षे परादित्वपक्षे च 'वत्रे' इत्यादावुरदत्वे रपरत्वे च कृते हलादिः शेषण रेफो न निवर्तेत, अभ्यासावयवस्यानादेईल एव तेन निवर्तनात् । तस्मादन्तग्रहणमनुवर्त्य पूर्वान्तपक्ष एवेह स्थापित इति सोपः।